Loading...
अथर्ववेद > काण्ड 6 > सूक्त 115

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 115/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - विश्वे देवाः छन्दः - अनुष्टुप् सूक्तम् - पापनाशन सूक्त

    द्रु॑प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒त्वा मला॑दिव। पू॒तं प॒वित्रे॑णे॒वाज्यं॒ विश्वे॑ शुम्भन्तु॒ मैन॑सः ॥

    स्वर सहित पद पाठ

    द्रु॒प॒दात्ऽइ॑व । मु॒मु॒चा॒न: । स्वि॒न्न: । स्ना॒त्वा । मला॑त्ऽइव । पू॒तम् । प॒वित्रे॑णऽइव । आज्य॑म् । विश्वे॑ । शु॒म्भ॒न्तु॒ । मा॒ । एन॑स: ॥११५.३॥


    स्वर रहित मन्त्र

    द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव। पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥

    स्वर रहित पद पाठ

    द्रुपदात्ऽइव । मुमुचान: । स्विन्न: । स्नात्वा । मलात्ऽइव । पूतम् । पवित्रेणऽइव । आज्यम् । विश्वे । शुम्भन्तु । मा । एनस: ॥११५.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 115; मन्त्र » 3

    टिप्पणीः - ३−(द्रुपदात्) काष्ठमयबन्धात् (इव) यथा (मुमुचानः) मुच्लृ शानच्, छान्दसो यकः श्लुः। मुच्यमानः (स्विन्नः) स्वेदयुक्तः पुरुषः (स्नात्वा) स्नानं कृत्वा (मलात्) मालिन्यात् (इव) (पूतम्) शोधितम् (पवित्रेण) शुद्धिसाधनेन वस्त्रेणाग्निना वा (इव) (आज्यम्) घृतम् (विश्वे) सर्वे देवा दिव्यगुणाः (शुम्भन्तु) शोधयन्तु (मा) माम् (एनसः) पापात् ॥

    इस भाष्य को एडिट करें
    Top