Loading...
अथर्ववेद > काण्ड 6 > सूक्त 115

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 115/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - विश्वे देवाः छन्दः - अनुष्टुप् सूक्तम् - पापनाशन सूक्त

    यद्वि॒द्वांसो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम्। यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसः ॥

    स्वर सहित पद पाठ

    यत् । वि॒द्वांस॑: । यत् । अवि॑द्वांस: । एनां॑सि । च॒कृ॒म । व॒यम् । यू॒यम् । न॒: । तस्मा॑त् । मु॒ञ्च॒त॒ । विश्वे॑ ।दे॒वा॒: । स॒ऽजो॒ष॒स॒: ॥११५.१॥


    स्वर रहित मन्त्र

    यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम्। यूयं नस्तस्मान्मुञ्चत विश्वे देवाः सजोषसः ॥

    स्वर रहित पद पाठ

    यत् । विद्वांस: । यत् । अविद्वांस: । एनांसि । चकृम । वयम् । यूयम् । न: । तस्मात् । मुञ्चत । विश्वे ।देवा: । सऽजोषस: ॥११५.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 115; मन्त्र » 1

    टिप्पणीः - १−(यत्) यदि (विद्वांसः) जानन्तः (यत्) यदि (अविद्वांसः) अजानानाः (एनांसि) अ० २।१०।८। अपराधान् (चकृम) कृतवन्तः (वयम्) (यूयम्) (नः) अस्मान् (तस्मात्) अपराधात् (मुञ्चत) (विश्वे) (देवाः) (सजोषसः) अ० ३।२२।१। समानप्रीतयः ॥

    इस भाष्य को एडिट करें
    Top