Loading...
अथर्ववेद > काण्ड 6 > सूक्त 119

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 119/ मन्त्र 1
    सूक्त - कौशिक देवता - वैश्वानरोऽग्निः छन्दः - त्रिष्टुप् सूक्तम् - पाशमोचन सूक्त

    यददी॑व्यन्नृ॒णम॒हं कृ॒णोम्यदा॑स्यन्नग्न उ॒त सं॑गृ॒णामि॑। वै॑श्वान॒रो नो॑ अधि॒पा वसि॑ष्ठ॒ उदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ॥

    स्वर सहित पद पाठ

    यत् । अदी॑व्यन् । ऋ॒णम् । अ॒हम् । कृ॒णोमि॑ । अदा॑स्यन् । अ॒ग्ने॒ । उ॒त । स॒म्ऽगृ॒णामि॑ । वै॒श्वा॒न॒र: । न॒: । अ॒धि॒ऽपा: । वसि॑ष्ठ: । उत् । इत् । न॒या॒ति॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् ॥११९.१॥


    स्वर रहित मन्त्र

    यददीव्यन्नृणमहं कृणोम्यदास्यन्नग्न उत संगृणामि। वैश्वानरो नो अधिपा वसिष्ठ उदिन्नयाति सुकृतस्य लोकम् ॥

    स्वर रहित पद पाठ

    यत् । अदीव्यन् । ऋणम् । अहम् । कृणोमि । अदास्यन् । अग्ने । उत । सम्ऽगृणामि । वैश्वानर: । न: । अधिऽपा: । वसिष्ठ: । उत् । इत् । नयाति । सुऽकृतस्य । लोकम् ॥११९.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 119; मन्त्र » 1

    टिप्पणीः - १−(यत्) (अदीव्यन्) व्यवहारम् अकुर्वन् (ऋणम्) (अहम्) (कृणोमि) करोमि (अदास्यन्) प्रतिदानम् अकरिष्यत् (अग्ने) हे सर्वज्ञ परमात्मन् (उत) अपि (संगृणामि) गॄ शब्दे। प्रतिजानामि (वैश्वानरः) अ० १।१०।४। सर्वनरहित (नः) अस्मान् (अधिपाः) अधिकं पालयिता (वसिष्ठः) वसु−इष्ठन्। अतिश्रेष्ठः परमेश्वरः (इत्) एव (उन्नयाति) ऊर्ध्वं प्रापयेत् (सुकृतस्य) पुण्यकर्मणः (लोकम्) समाजम् ॥

    इस भाष्य को एडिट करें
    Top