Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 118/ मन्त्र 3
यस्मा॑ ऋ॒णं यस्य॑ जा॒यामु॒पैमि॒ यं याच॑मानो अ॒भ्यैमि॑ देवाः। ते वाचं॑ वादिषु॒र्मोत्त॑रां॒ मद्देव॑पत्नी॒ अप्स॑रसा॒वधी॑तम् ॥
स्वर सहित पद पाठयस्मै॑ । ऋ॒णम् । यस्य॑ । जा॒याम् । उ॒प॒ऽऐमि॑ । यम् । याच॑मान: । अ॒भि॒ऽऐमि॑ । दे॒वा॒: । ते । वाच॑म् । वा॒दि॒षु॒: । मा । उत्त॑राम् । मत् । देव॑प॒त्नी इति॒ देव॑ऽपत्नी । अप्स॑रसौ । अधि । इ॒त॒म् ॥११८.३॥
स्वर रहित मन्त्र
यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवाः। ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम् ॥
स्वर रहित पद पाठयस्मै । ऋणम् । यस्य । जायाम् । उपऽऐमि । यम् । याचमान: । अभिऽऐमि । देवा: । ते । वाचम् । वादिषु: । मा । उत्तराम् । मत् । देवपत्नी इति देवऽपत्नी । अप्सरसौ । अधि । इतम् ॥११८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 118; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यस्मै) उत्तमर्णाय (ऋणम्) प्रतिदेयं धनम् (यस्य) (जायाम्) भार्य्याम् (उपैमि) उपगच्छामि व्यभिचारेण (यम्) (याचमानः) अनुचितं प्रार्थयमानः (अभ्यैमि) प्राप्नोमि (देवाः) हे विद्वांसः (ते) त्रयो जनाः (वाचम्) वाणीम् (मा वादिषुः) मा ब्रुवन्तु (उत्तराम्) उत्कृष्टतराम्। प्रतिकूलमित्यर्थः (मत्) मत्तः (देवपत्नी) देवपत्न्यो देवानां पत्न्यः−निरु० १३।४४। हे दिव्यपदार्थानां पालयित्र्यौ (अप्सरसौ)−म० १। अन्तरिक्षे सरन्त्यौ द्यावापृथिव्यौ (अधीतम्) इक् स्मरणे। अधिकं स्मरतम् ॥
इस भाष्य को एडिट करें