Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 12/ मन्त्र 2
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषनिवारण सूक्त
यद्ब्र॒ह्मभि॒र्यदृषि॑भि॒र्यद्दे॒वैर्वि॑दि॒तं पु॒रा। यद्भू॒तं भव्य॑मास॒न्वत्तेना॑ ते वारये वि॒षम् ॥
स्वर सहित पद पाठयत् । ब्र॒ह्मऽभि॑: । यत् । ऋषि॑ऽभि: । यत् । दे॒वै: । वि॒दि॒तम् । पु॒रा । यत् । भू॒तम् । भव्य॑म् । आ॒स॒न्ऽवत् । तेन॑ । ते॒ । वा॒र॒ये॒ । वि॒षम् ॥१२.२॥
स्वर रहित मन्त्र
यद्ब्रह्मभिर्यदृषिभिर्यद्देवैर्विदितं पुरा। यद्भूतं भव्यमासन्वत्तेना ते वारये विषम् ॥
स्वर रहित पद पाठयत् । ब्रह्मऽभि: । यत् । ऋषिऽभि: । यत् । देवै: । विदितम् । पुरा । यत् । भूतम् । भव्यम् । आसन्ऽवत् । तेन । ते । वारये । विषम् ॥१२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 12; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यत्) ज्ञानम् (ब्रह्मभिः) वेदज्ञैर्ब्राह्मणैः (ऋषिभि) अ० २।६।१। सन्मार्गदर्शकैः (देवैः) व्यवहारकुशलैः (विदितम्) परिज्ञातम् (पुरा) पूर्वकाले (भूतम्) अतीतकाले भवम् (भव्यम्) भविष्यत्कालीनम् (आसन्वत्) कनिन् युवृषितक्षि०। उ० १।१५६। इति आस उपवेशने−कनिन्, मतुप् च। व्याप्तिमत्। अन्यद् गतम्। म० २ ॥
इस भाष्य को एडिट करें