Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 12/ मन्त्र 3
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषनिवारण सूक्त
मध्वा॑ पृञ्चे न॒द्यः पर्व॑ता गि॒रयो॒ मधु॑। मधु॒ परु॑ष्णी॒ शीपा॑ला॒ शमा॒स्ने अ॑स्तु॒ शं हृ॒दे ॥
स्वर सहित पद पाठमध्वा॑ । पृ॒ञ्चे॒ । न॒द्य᳡: । पर्व॑ता: । गि॒रय॑: । मधु॑ । मधु॑ । परु॑ष्णी । शीपा॑ला । शम् । आ॒स्ने । अ॒स्तु॒ । शम् । हृ॒दे ॥१२.३॥
स्वर रहित मन्त्र
मध्वा पृञ्चे नद्यः पर्वता गिरयो मधु। मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे ॥
स्वर रहित पद पाठमध्वा । पृञ्चे । नद्य: । पर्वता: । गिरय: । मधु । मधु । परुष्णी । शीपाला । शम् । आस्ने । अस्तु । शम् । हृदे ॥१२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 12; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(मध्वा) अमृतेन (पृञ्चे) पृची सम्पर्के। संयोजयामि त्वाम् (नद्यः) (पर्वताः) (गिरयः) क्षुद्रशैलाः (मधु) अमृतम् (परुष्णी) अर्तिपॄवपि०। उ० २।११७। इति पॄ पालनपूरणयोः−उसि। लोमादिपामादि०। पा० ५।२।१००। इति परुष्−न मत्वर्थे। गौरादित्वाद् ङीष्। परुष्णी पर्ववती भास्वती कुटिलगामिनी−निरु० ९।२६। परुष्णीम् पालिकां नीतिम्−दयानन्दभाष्ये ऋ० ७।१८।९। पालनवती (शीपाला) शीङो धुक्लक्०। उ० ४।३८। इति शीङ् शयने−वालन्, स च कित् वस्य पः, टाप्। शेते अनया। सुखदायिका यवाद्योषधिः (शम्) शान्तिः (आस्ने) पद्दन्नोमास्०। पा० ६।१।६३। इति आस्यस्य आसन्। आस्याय मुखाय (अस्तु) (हृदे) हृदयाय ॥
इस भाष्य को एडिट करें