Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 126/ मन्त्र 1
सूक्त - अथर्वा
देवता - दुन्दुभिः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - दुन्दुभि सूक्त
उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ वन्वतां॒ विष्ठि॑तं॒ जग॑त्। स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥
स्वर सहित पद पाठउप॑ । श्वा॒स॒य॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । पु॒रु॒ऽत्रा । ते॒ । व॒न्व॒ता॒म् । विऽस्थि॑तम् । जग॑त् । स: । दु॒न्दु॒भे॒ । स॒ऽजू: । इन्द्रे॑ण । दे॒वै: । दू॒रात् । दवी॑य: । अप॑ । से॒ध॒ । शत्रू॑न् ॥१२६.१॥
स्वर रहित मन्त्र
उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते वन्वतां विष्ठितं जगत्। स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥
स्वर रहित पद पाठउप । श्वासय । पृथिवीम् । उत । द्याम् । पुरुऽत्रा । ते । वन्वताम् । विऽस्थितम् । जगत् । स: । दुन्दुभे । सऽजू: । इन्द्रेण । देवै: । दूरात् । दवीय: । अप । सेध । शत्रून् ॥१२६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 126; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(उप) उपयोगेन (श्वासय) प्राणय। आश्रय (पृथिवीम्) भूमिमन्तरिक्षं वा (उत) अपि (द्याम्) सूर्यं विद्युतं वा (पुरुत्रा) बहुषु पदार्थेषु (ते) तुभ्यम् (वन्वताम्) वनु याचने। याचन्तां वीराः (विष्ठितम्) व्याप्तम् (जगत्) जगद्राज्यम् (सः) स त्वम् (दुन्दुभे) अ० ५।२०।१। दुन्दुभिरिव गर्जक (सजूः) अ० ६।३५।२। प्रीतिसहितः (इन्द्रेण) विद्युदस्त्रेण (देवैः) विजिगीषुभिर्वीरैः (दूरात्) (दवीयः) दूर−ईयसुन्। स्थूलदूरयुव० पा० ६।४।१५६। इति रलोपः पूर्वस्य च गुणः। अदूरतरम् (अपसेध) अपनय (शत्रून्) ॥
इस भाष्य को एडिट करें