Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 125/ मन्त्र 3
इन्द्र॒स्यौजो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑। स इ॒मां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥
स्वर सहित पद पाठइन्द्र॑स्य । ओज॑: । म॒रुता॑म् । अनी॑कम् । मि॒त्रस्य॑ । गर्भ॑: । वरु॑णस्य । नाभि॑: । स: । इ॒माम् । न॒: । ह॒व्यऽदा॑तिम् । जु॒षा॒ण: । देव॑ । र॒थ॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥१२५३॥
स्वर रहित मन्त्र
इन्द्रस्यौजो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः। स इमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥
स्वर रहित पद पाठइन्द्रस्य । ओज: । मरुताम् । अनीकम् । मित्रस्य । गर्भ: । वरुणस्य । नाभि: । स: । इमाम् । न: । हव्यऽदातिम् । जुषाण: । देव । रथ । प्रति । हव्या । गृभाय ॥१२५३॥
अथर्ववेद - काण्ड » 6; सूक्त » 125; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(इन्द्रस्य) विद्युतः (ओजः) बलम् (मरुताम्) अ० १।२०।१। शूराणाम्, (अनीकम्) सैन्यम् (मित्रस्य) प्राणस्य (गर्भः) आधारः (वरुणस्य) अपानस्य (नाभिः) बन्धनम्। मध्यस्थानम् (सः) स त्वम् (नः) अस्मभ्यम् (हव्यदातिम्) दातव्यदानक्रियाम् (जुषाणः) सेवमानः (देव) हे दिव्यविद्य (रथ) रमणीयस्वरूप (प्रति) प्रतीत्या (हव्या) ग्राह्यवस्तूनि (गृभाय) गृहाण ॥
इस भाष्य को एडिट करें