Loading...
अथर्ववेद > काण्ड 6 > सूक्त 125

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 125/ मन्त्र 1
    सूक्त - अथर्वा देवता - वनस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - वीर रथ सूक्त

    वन॑स्पते वी॒ड्वङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑। गोभिः॒ संन॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥

    स्वर सहित पद पाठ

    वन॑स्पते । वी॒डुऽअ॑ङ्ग: । हि । भू॒या: । अ॒स्मत्ऽस॑खा । प्र॒ऽतर॑ण: । सु॒ऽवीर॑: । गोभि॑: । सम्ऽन॑ध्द: । अ॒सि॒ । वी॒डय॑स्व । आ॒ऽस्था॒ता । ते॒ । ज॒य॒तु॒ । जेत्वा॑नि ॥१२५.१॥


    स्वर रहित मन्त्र

    वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः। गोभिः संनद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥

    स्वर रहित पद पाठ

    वनस्पते । वीडुऽअङ्ग: । हि । भूया: । अस्मत्ऽसखा । प्रऽतरण: । सुऽवीर: । गोभि: । सम्ऽनध्द: । असि । वीडयस्व । आऽस्थाता । ते । जयतु । जेत्वानि ॥१२५.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 125; मन्त्र » 1

    टिप्पणीः - १−(वनस्पते) अ० १।३५।३। वनानां किरणानां पालकः सूर्य इव राजन् (वीड्वङ्गः) वीडु बलम् निघ० २।९। बलिष्ठाङ्गः (हि) (भूयाः) भवेः (अस्मत्सखा) अस्माकं मित्रम् (प्रतरणः) प्रतारकः। प्रवर्धकः (सुवीरः) कल्याणवीरः−निरु० ९।१२। सुष्ठु वीरयुक्तः (गोभिः) इषुभिः। वज्रैः। स्वर्गेषुपशु- वज्रदिङ्नेत्रघृणिभूजले−इत्यमरः, २३।२५। (सन्नद्धः) सम्यक् सज्जः (असि) (वीडयस्व) वीडयतिः संस्तम्भकर्मा−निरु० ५।१६। यद्वा, वीर विक्रान्तौ, रस्य डः। दृढान् कुरु (आस्थाता) आस्थया श्रद्धया युक्तः (ते) तव (जयतु) (जेत्वानि) कृत्यार्थे तवैकेन्०। पा० ३।४।१४। जि जये−त्वन्। जेतव्यानि शत्रुसैन्यानि ॥

    इस भाष्य को एडिट करें
    Top