Loading...
अथर्ववेद > काण्ड 6 > सूक्त 124

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 124/ मन्त्र 3
    सूक्त - अथर्वा देवता - दिव्या आपः छन्दः - त्रिष्टुप् सूक्तम् - निर्ऋत्यपस्तरण सूक्त

    अ॒भ्यञ्ज॑नं सुर॒भि सा समृ॑द्धि॒र्हिर॑ण्यं॒ वर्च॒स्तदु॑ पू॒त्रिम॑मे॒व। सर्वा॑ प॒वित्रा॒ वित॒ताध्य॒स्मत्तन्मा ता॑री॒न्निरृ॑ति॒र्मो अरा॑तिः ॥

    स्वर सहित पद पाठ

    अ॒भि॒ऽअञ्ज॑नम् । सु॒र॒भि । सा । सम्ऽऋ॑ध्दि: । हिर॑ण्यम् । वर्च॑: । तत् । ऊं॒ इति॑ । पू॒त्रिम॑म् । ए॒व । सर्वा॑ । प॒वित्रा॑ । विऽत॑ता । अधि॑ । अ॒स्मत् । तत्। मा । ता॒री॒त् । नि:ऽऋ॑ति: । मो इति॑ । अरा॑ति: ॥१२४.३॥


    स्वर रहित मन्त्र

    अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव। सर्वा पवित्रा वितताध्यस्मत्तन्मा तारीन्निरृतिर्मो अरातिः ॥

    स्वर रहित पद पाठ

    अभिऽअञ्जनम् । सुरभि । सा । सम्ऽऋध्दि: । हिरण्यम् । वर्च: । तत् । ऊं इति । पूत्रिमम् । एव । सर्वा । पवित्रा । विऽतता । अधि । अस्मत् । तत्। मा । तारीत् । नि:ऽऋति: । मो इति । अराति: ॥१२४.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 124; मन्त्र » 3

    टिप्पणीः - ३−(अभ्यञ्जनम्) अभ्यङ्गसाधकं तैलादिकम् (सुरभि) सुगन्धं चन्दनादिकम् (सा) प्रसिद्धा (समृद्धिः) सम्पत्तिः (हिरण्यम्) सुवर्णान् (वर्चः) तेजः। बलम् (तत्) (उ) (पवित्रमम्) ड्वितः क्त्रिः। पा० ३।३।८८। इति बाहुलकात् पूञ् पवने−क्त्रिः। क्त्रेर्मम् नित्यम्। पा० ४।४।२०। इति मम्। शुद्धिसाधनम् (एव) एवम् (सर्वा) सर्वाणि (पवित्रा) शोधनानि (वितता) विस्तृतानि (अस्मदधि) अस्माकमुपरि (तत्) तस्मात् (मा) निषेधे (निर्ऋतिः) अलक्ष्मीः (मो तारीत्) अ० २।७।४। मैवातिक्रामत् (अरातिः) अ० २।७।४। अदाता कृपणः ॥

    इस भाष्य को एडिट करें
    Top