Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 124/ मन्त्र 1
सूक्त - अथर्वा
देवता - दिव्या आपः
छन्दः - त्रिष्टुप्
सूक्तम् - निर्ऋत्यपस्तरण सूक्त
दि॒वो नु मां बृ॑ह॒तो अ॒न्तरि॑क्षाद॒पां स्तो॒को अ॒भ्यपप्त॒द्रसे॑न। समि॑न्द्रि॒येण॒ पय॑सा॒हम॑ग्ने॒ छन्दो॑भिर्य॒ज्ञैः सु॒कृतां॑ कृ॒तेन॑ ॥
स्वर सहित पद पाठदि॒व: । नु । माम् । बृ॒ह॒त: । अ॒न्तरि॑क्षात् । अ॒पाम् । स्तो॒क: । अ॒भि । अ॒प॒प्त॒त् । रसे॑न । सम् । इ॒न्द्रि॒येण॑ । पय॑सा । अ॒हम् । अ॒ग्ने॒ । छन्द॑:ऽभि: । य॒ज्ञै: । सु॒ऽकृता॑म् । कृ॒तेन॑ ॥१२४.१॥
स्वर रहित मन्त्र
दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन। समिन्द्रियेण पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन ॥
स्वर रहित पद पाठदिव: । नु । माम् । बृहत: । अन्तरिक्षात् । अपाम् । स्तोक: । अभि । अपप्तत् । रसेन । सम् । इन्द्रियेण । पयसा । अहम् । अग्ने । छन्द:ऽभि: । यज्ञै: । सुऽकृताम् । कृतेन ॥१२४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 124; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(दिवः) प्रकाशमानात् सूर्यात् (नु) अथवा (माम्) प्राणिनम् (अभि) अभिलक्ष्य (बृहतः) विशालात् (अन्तरिक्षात्) आकाशात् (अपाम्) जलानाम् (स्तोकः) अ० ४।३८।६। बिन्दुः (अपप्तत्) अ० ५।३०।९। पतितोऽभूत् (रसेन) सारेण (सम्) क्रियाग्रहणम्। संगच्छेय (इन्द्रियेण) इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट०। पा० ५।२।९३। इन्द्रस्य आत्मनो लिङ्गम्। ऐश्वर्यम्। धनम्−निघ० २।१०। (पयसा) अन्नेन−निघ० २।७। (अहम्) मनुष्यः (अग्ने) हे सर्वव्यापक परमेश्वर (छन्दोभिः) अ० ४।३४।१। आह्लादनैः (यज्ञैः) विद्यादिदानैः सह (सुकृताम्) पुण्यकर्मिणाम् (कृतेन) कर्मणा ॥
इस भाष्य को एडिट करें