Loading...
अथर्ववेद > काण्ड 6 > सूक्त 123

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 123/ मन्त्र 5
    सूक्त - भृगु देवता - विश्वे देवाः छन्दः - त्रिष्टुप् सूक्तम् - सौमनस्य सूक्त

    नाके॑ राज॒न्प्रति॑ तिष्ठ॒ तत्रै॒तत्प्रति॑ तिष्ठतु। वि॒द्धि पू॒र्तस्य॑ नो राज॒न्त्स दे॑व सु॒मना॑ भव ॥

    स्वर सहित पद पाठ

    नाके॑ । रा॒ज॒न् । प्रति॑ । ति॒ष्ठ॒ । तत्र॑ । ए॒तत् । प्रति॑ । ति॒ष्ठ॒तु॒ । वि॒ध्दि । पू॒र्तस्य॑ । न॒: । रा॒ज॒न् । स: । दे॒व॒ । सु॒ऽमना॑: । भ॒व॒ ॥१२३.५॥


    स्वर रहित मन्त्र

    नाके राजन्प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु। विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव ॥

    स्वर रहित पद पाठ

    नाके । राजन् । प्रति । तिष्ठ । तत्र । एतत् । प्रति । तिष्ठतु । विध्दि । पूर्तस्य । न: । राजन् । स: । देव । सुऽमना: । भव ॥१२३.५॥

    अथर्ववेद - काण्ड » 6; सूक्त » 123; मन्त्र » 5

    टिप्पणीः - ५−(नाके) दुःखरहिते सुखस्वरूपे परमात्मनि (राजन्) हे समर्थ जीव (प्रति तिष्ठ) प्रतिष्ठया स्थितो भव (तत्र) तस्मिन् परमात्मनि (एतत्) पूर्तम्। पुण्यकर्म (प्रति तिष्ठतु) प्रतिष्ठया स्थितं भवतु (विद्धि) ज्ञानं कुरु (पूर्तस्य) अ० २।१२।४। अन्नप्रदानादिपुण्यकर्मणः (नः) अस्मभ्यम् (राजन्) (सः) स त्वम् (देव) उद्योगिन् (सुमनाः) प्रसन्नचित्तः (भव) ॥

    इस भाष्य को एडिट करें
    Top