अथर्ववेद - काण्ड 6/ सूक्त 123/ मन्त्र 1
सूक्त - भृगु
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - सौमनस्य सूक्त
ए॒तं स॑धस्थाः॒ परि॑ वो ददामि॒ यं शे॑व॒धिमा॒वहा॑ज्जा॒तवे॑दाः। अ॑न्वाग॒न्ता यज॑मानः स्व॒स्ति तं स्म॑ जानीत पर॒मे व्योमन् ॥
स्वर सहित पद पाठए॒तम् । स॒ध॒ऽस्था॒: । परि॑ । व॒: । द॒दा॒मि॒ । यम् । शे॒व॒ऽधिम् । आ॒ऽवहा॑त् । जा॒तऽवे॑दा: । अ॒नु॒ऽआ॒ग॒न्ता । यज॑मान: । स्व॒स्ति । तम् । स्म॒ । जा॒नी॒त॒ । प॒र॒मे । विऽओ॑मन् ॥१२३.१॥
स्वर रहित मन्त्र
एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदाः। अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥
स्वर रहित पद पाठएतम् । सधऽस्था: । परि । व: । ददामि । यम् । शेवऽधिम् । आऽवहात् । जातऽवेदा: । अनुऽआगन्ता । यजमान: । स्वस्ति । तम् । स्म । जानीत । परमे । विऽओमन् ॥१२३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 123; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(एतम्) सर्वव्यापकम् (सधस्थाः) सहस्थानाः (परि) सर्वतः (वः) युष्मभ्यम् (ददामि) (यम्) (शेवधिम्) शेवं सुखं धीयते यस्मिंस्तं निधिम्−निरु० २।४। सुखनिधिं परमात्मानम् (आवहात्) लेटि रूपम्। समन्तात् प्राप्नुयात् (जातवेदाः) जातप्रज्ञो वेदार्थवित् (अन्वागन्ता) गमेर्लुट्। निरन्तरमागमिष्यति। प्राप्स्यति (यजमानः) परमेश्वरपूजकः (स्वस्ति) कल्याणम् (तम्) परमात्मानम् (स्म) अवश्यम् (परमे) प्रकृष्टे (व्योमन्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति अव रक्षणे−मनिन्। ज्वरत्वरस्रिव्यवि०। पा० ६।४।२०। इति ऊठि कृते गुणः। सुपां सुलुक्०। सप्तम्या लुक्। न ङिसम्बुद्ध्योः। पा० ८।२।८। नलोपाभावः। व्योमन्=व्यवने−निरु० ११।४०। व्योमनि। आकाशे ॥
इस भाष्य को एडिट करें