Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 125/ मन्त्र 2
दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑। अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑तमिन्द्रस्य॒ वज्रं॑ हविषा॒ रथं॑ यज ॥
स्वर सहित पद पाठदि॒व: । पृ॒थि॒व्या:। परि॑ । ओज॑: । उत्ऽभृ॑तम् । वन॒स्पति॑ऽभ्य: । परि॑ । आऽभृ॑तम् । सह॑: । अ॒पाम् । ओ॒ज्मान॑म् । परि॑ । गोभि॑: । आऽवृ॑तम् । इन्द्र॑स्य । वज्र॑म् । ह॒विषा॑ । रथ॑म् । य॒ज॒ ॥१२५.२॥
स्वर रहित मन्त्र
दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः। अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥
स्वर रहित पद पाठदिव: । पृथिव्या:। परि । ओज: । उत्ऽभृतम् । वनस्पतिऽभ्य: । परि । आऽभृतम् । सह: । अपाम् । ओज्मानम् । परि । गोभि: । आऽवृतम् । इन्द्रस्य । वज्रम् । हविषा । रथम् । यज ॥१२५.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 125; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(दिवः) विद्युतः सूर्याद् वा (पृथिव्याः) भूमेरन्तरिक्षाद् वा (परि) लक्षणेत्थंभूताख्यान०। पा० १।४।९०। इति कर्मप्रवचनीयत्वम्। प्राप्य (ओजः) बलम् (उद्भृतम्) उत्तमतया धृतम् (वनस्पतिभ्यः) वटादिभ्यः (परि) प्राप्य (आभृतम्) समन्तात् पोषितम् (सहः) बलम् (अपाम्) जलानाम् (ओज्मानम्) अ० ४।१९।८। बलम् (परि) प्राप्य (गोभिः) किरणैः (आवृतम्) आच्छादितम् (इन्द्रस्य) विद्युतः (वज्रम्) शस्त्रसमूहम् (हविषा) ग्रहणेन (रथम्) रमणीयं विमानादियानम् (यज) संयोजय ॥
इस भाष्य को एडिट करें