Loading...
अथर्ववेद > काण्ड 6 > सूक्त 129

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 129/ मन्त्र 1
    सूक्त - अथर्वा देवता - भगः छन्दः - अनुष्टुप् सूक्तम् - भगप्राप्ति सूक्त

    भगे॑न मा शांश॒पेन॑ सा॒कमिन्द्रे॑ण मे॒दिना॑। कृ॒णोमि॑ भ॒गिनं॒ माप॑ द्रा॒न्त्वरा॑तयः ॥

    स्वर सहित पद पाठ

    भगे॑न । मा॒ । शां॒श॒पेन॑ । सा॒कम् । इन्द्रे॑ण । मे॒दिना॑ । कृ॒णोमि॑ । भ॒गिन॑म् । मा॒ । अप॑ । द्रा॒न्तु॒ । अरा॑तय: ॥१२९.१॥


    स्वर रहित मन्त्र

    भगेन मा शांशपेन साकमिन्द्रेण मेदिना। कृणोमि भगिनं माप द्रान्त्वरातयः ॥

    स्वर रहित पद पाठ

    भगेन । मा । शांशपेन । साकम् । इन्द्रेण । मेदिना । कृणोमि । भगिनम् । मा । अप । द्रान्तु । अरातय: ॥१२९.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 129; मन्त्र » 1

    टिप्पणीः - १−(भगेन) पुंसि सज्ञायां घः प्रायेण। पा० ३।३।११८। भज सेवायाम्−घ। चजोः कु घिण्ण्यतोः। पा० ७।३।५२। इति कुत्वम्। ऐश्वर्येण। धनेन−निघ० २।१०। (मा मा) मां माम्। आत्मानमेव (शांशपेन) शेपः शपतेः स्पृशतिकर्मणः−निरु० ३।२१। शम्+शप स्पर्शे−अच्। ततोऽण्। शान्तेः स्पर्शयुक्तेन (साकम्) सह वर्तमानेन (इन्द्रेण) परमेश्वरेण (मेदिना) परमस्नेहिना (कृणोमि) करोमि (भगिनम्) ऐश्वर्यवन्तम् (अप द्रान्तु) द्रा कुत्सायां गतौ। दूरे पलायन्ताम् (अरातयः) अदानशीला अस्माकं स्वभावाः ॥

    इस भाष्य को एडिट करें
    Top