Loading...
अथर्ववेद > काण्ड 6 > सूक्त 128

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 128/ मन्त्र 4
    सूक्त - अथर्वाङ्गिरा देवता - सोमः, शकधूमः छन्दः - अनुष्टुप् सूक्तम् - राजा सूक्त

    यो नो॑ भद्रा॒हमक॑रः सा॒यं नक्त॑मथो॒ दिवा॑। तस्मै॑ ते नक्षत्रराज॒ शक॑धूम॒ सदा॒ नमः॑ ॥

    स्वर सहित पद पाठ

    य: । न॒: । भ॒द्र॒ऽअ॒हम् । अक॑र: । सा॒यम् । नक्त॑म् । अथो॒ इति॑ । दिवा॑ । तस्मै॑ । ते॒ । न॒क्ष॒त्र॒ऽरा॒ज॒ । शक॑ऽधूम । सदा॑ । नम॑: ॥१२८.४॥


    स्वर रहित मन्त्र

    यो नो भद्राहमकरः सायं नक्तमथो दिवा। तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥

    स्वर रहित पद पाठ

    य: । न: । भद्रऽअहम् । अकर: । सायम् । नक्तम् । अथो इति । दिवा । तस्मै । ते । नक्षत्रऽराज । शकऽधूम । सदा । नम: ॥१२८.४॥

    अथर्ववेद - काण्ड » 6; सूक्त » 128; मन्त्र » 4

    टिप्पणीः - ४−(यः) यस्त्वम् (नः) अस्मभ्यम् (भद्राहम्) म० १। (अकरः) कृतवानसि (सायम्) (नक्तम्) रात्रौ (अथो) अपि च (दिवा) दिवसे (तस्मै) तथाभूताय (ते) तुभ्यम् (नक्षत्रराज) नक्षत्राणां स्वामिन् (शकधूम) म० १। (सदा) सर्वदा (नमः) सत्कारः ॥

    इस भाष्य को एडिट करें
    Top