Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 128/ मन्त्र 2
सूक्त - अथर्वाङ्गिरा
देवता - सोमः, शकधूमः
छन्दः - अनुष्टुप्
सूक्तम् - राजा सूक्त
भ॑द्रा॒हं नो॑ म॒ध्यन्दि॑ने भद्रा॒हं सा॒यम॑स्तु नः। भ॑द्रा॒हं नो॒ अह्नां॑ प्रा॒ता रात्री॑ भद्रा॒हम॑स्तु नः ॥
स्वर सहित पद पाठभ॒द्र॒ऽअ॒हम् । न॒: । म॒ध्यंदि॑ने । भ॒द्र॒ऽअ॒हम् । सा॒यम् । अ॒स्तु॒ । न॒: । भ॒द्र॒ऽअ॒हम् । न॒: । अह्ना॑म् । प्रा॒त: । रात्री॑ भ॒द्र॒ऽअ॒हम् । अ॒स्तु॒ । न॒: ॥१२८.२॥
स्वर रहित मन्त्र
भद्राहं नो मध्यन्दिने भद्राहं सायमस्तु नः। भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः ॥
स्वर रहित पद पाठभद्रऽअहम् । न: । मध्यंदिने । भद्रऽअहम् । सायम् । अस्तु । न: । भद्रऽअहम् । न: । अह्नाम् । प्रात: । रात्री भद्रऽअहम् । अस्तु । न: ॥१२८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 128; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(भद्राहम्) म० १। शुभकालः (नः) अस्मभ्यम् (मध्यन्दिने) मध्याह्ने (सायम्) सूर्यास्ते (अस्तु) (अह्नाम्) सर्वदिनानाम् (प्रातः) सूर्योदये (रात्री) रात्र्याम् ॥अन्यद् व्याख्यातम्॥
इस भाष्य को एडिट करें