Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 131/ मन्त्र 2
अनु॑मतेऽन्वि॒दं म॑न्य॒स्वाकू॑ते॒ समि॒दं नमः॑। देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥
स्वर सहित पद पाठअनु॑ऽमते । अनु॑ । इ॒दम् । म॒न्य॒स्व॒ । आऽकू॑ते । सम् । इ॒दम् । नम॑: । देवा॑: । प्र । हि॒णु॒त॒ । स्म॒रम् । अ॒सौ । माम् । अनु॑ । शो॒च॒तु॒ ॥१३१.२॥
स्वर रहित मन्त्र
अनुमतेऽन्विदं मन्यस्वाकूते समिदं नमः। देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥
स्वर रहित पद पाठअनुऽमते । अनु । इदम् । मन्यस्व । आऽकूते । सम् । इदम् । नम: । देवा: । प्र । हिणुत । स्मरम् । असौ । माम् । अनु । शोचतु ॥१३१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 131; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अनुमते) अ० १।१८।२। हे सहायिके बुद्धे (इदम्) क्रियमाणं कर्म (अनु मन्यस्व) स्वीकुरु (आकूते) हे उत्साहशक्ते−यथा दयानन्दभाष्ये, यजु० ४।७। (सम्) सम्यक् (इदम्) (नमः) अन्नम्−निघ० २।७। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें