Loading...
अथर्ववेद > काण्ड 6 > सूक्त 131

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 131/ मन्त्र 3
    सूक्त - अथर्वा देवता - स्मरः छन्दः - अनुष्टुप् सूक्तम् - स्मर सूक्त

    यद्धाव॑सि त्रियोज॒नं प॑ञ्चयोज॒नमाश्वि॑नम्। तत॒स्त्वं पुन॒राय॑सि पु॒त्राणां॑ नो असः पि॒ता ॥

    स्वर सहित पद पाठ

    यत् । धाव॑सि । त्रि॒ऽयो॒ज॒नम् । प॒ञ्च॒ऽयो॒ज॒नम् । आश्वि॑नम् । तत॑: । त्वम् । पुन॑: । आऽअ॑यसि । पु॒त्राणा॑म् । न॒: । अ॒स॒: । पि॒ता ॥१३१.३॥


    स्वर रहित मन्त्र

    यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम्। ततस्त्वं पुनरायसि पुत्राणां नो असः पिता ॥

    स्वर रहित पद पाठ

    यत् । धावसि । त्रिऽयोजनम् । पञ्चऽयोजनम् । आश्विनम् । तत: । त्वम् । पुन: । आऽअयसि । पुत्राणाम् । न: । अस: । पिता ॥१३१.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 131; मन्त्र » 3

    टिप्पणीः - ३−(यत्) यदि (धावसि) शीघ्रं गच्छसि (त्रियोजनम्) योजनत्रयपरिमितं देशम् (पञ्चयोजनम्) पञ्चयोजनपरिमितं देशम् (आश्विनम्) अश्विन्−अण्। अश्विना अश्ववारेण गन्तव्यं देशम् (ततः) तस्माद्देशात् (पुनः) निवृत्य (आयसि) आगच्छ (पुत्राणाम्) पुत्रादीनाम् (नः) अस्माकम् (असः) भवेः (पिता) पालकः ॥

    इस भाष्य को एडिट करें
    Top