Loading...
अथर्ववेद > काण्ड 6 > सूक्त 132

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 132/ मन्त्र 1
    सूक्त - अथर्वा देवता - स्मरः छन्दः - त्रिपदानुष्टुप् सूक्तम् - स्मर सूक्त

    यं दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥

    स्वर सहित पद पाठ

    यम् । दे॒वा: । स्म॒रम् । असि॑ञ्चन् । अ॒प्ऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.१॥


    स्वर रहित मन्त्र

    यं देवाः स्मरमसिञ्चन्नप्स्वन्तः शोशुचानं सहाध्या। तं ते तपामि वरुणस्य धर्मणा ॥

    स्वर रहित पद पाठ

    यम् । देवा: । स्मरम् । असिञ्चन् । अप्ऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 132; मन्त्र » 1

    टिप्पणीः - १−(यम्) (देवाः) विजिगीषवः। (स्मरम्) अ० ६।१३०।१। स्मरणसामर्थ्यम् (असिञ्चन्) षिच सेके। अवर्धयन् (अप्सु) प्रजासु−दयानन्दभाष्ये य० ६।२७। (अन्तः) मध्ये (शोशुचानम्) अ० ४।११।३। देदीप्यमानम् (सह) (आध्या) सू० १३१ म० १। ध्यानशक्त्या (तत्) स्मरम्−(ते) तुभ्यम् (तपामि) ऐश्वर्यवन्तं करोमि (वरुणस्य) वरणीयस्य श्रेष्ठस्य परमेश्वरस्य (धर्मणा) धारणशक्त्या। नियमेन ॥

    इस भाष्य को एडिट करें
    Top