Loading...
अथर्ववेद > काण्ड 6 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 18/ मन्त्र 2
    सूक्त - अथर्वा देवता - ईर्ष्याविनाशनम् छन्दः - अनुष्टुप् सूक्तम् - ईर्ष्याविनाशन सूक्त

    यथा॒ भूमि॑र्मृ॒तम॑ना मृ॒तान्मृ॒तम॑नस्तरा। यथो॒त म॒म्रुषो॒ मन॑ ए॒वेर्ष्योर्मृ॒तं मनः॑ ॥

    स्वर सहित पद पाठ

    यथा॑ । भूमि॑: । मृ॒तऽम॑ना: । मृ॒तात् । मृ॒तम॑न:ऽतरा॑ । यथा॑ । उ॒त । म॒म्रुष॑: । मन॑: । ए॒व । ई॒र्ष्यो: । मृ॒तम् । मन॑: ॥१८.२॥


    स्वर रहित मन्त्र

    यथा भूमिर्मृतमना मृतान्मृतमनस्तरा। यथोत मम्रुषो मन एवेर्ष्योर्मृतं मनः ॥

    स्वर रहित पद पाठ

    यथा । भूमि: । मृतऽमना: । मृतात् । मृतमन:ऽतरा । यथा । उत । मम्रुष: । मन: । एव । ईर्ष्यो: । मृतम् । मन: ॥१८.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 18; मन्त्र » 2

    टिप्पणीः - २−(यथा) येन प्रकारेण (भूमिः) सर्वप्राणिभिरधिष्ठिता पृथिवी (मृतमनाः) उत्पादनशक्तिहीना। ऊषरा (मृतात्) त्यक्तप्राणात्। मृतकात् (मृतमनस्तरा) अधिकमृतमना (उत) अपि च (मम्रुषः) मृङ् प्राणत्यागे−क्वसु। मृतवतः पुरुषस्य (मनः) मनोबलम् (एव) एवमेव (ईर्ष्योः) भृमृशीङ्०। उ० १।६। इति ईर्ष्य−उ। ईर्षायुक्तस्य पुरुषस्य (मृतम्) विनष्टं भवति (मनः) ॥

    इस भाष्य को एडिट करें
    Top