Loading...
अथर्ववेद > काण्ड 6 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 20/ मन्त्र 3
    सूक्त - भृग्वङ्गिरा देवता - यक्ष्मनाशनम् छन्दः - सतःपङ्क्तिः सूक्तम् - यक्ष्मानाशन सूक्त

    अ॒यं यो अ॑भिशोचयि॒ष्णुर्विश्वा॑ रू॒पाणि॒ हरि॑ता कृ॒णोषि॑। तस्मै॑ तेऽरु॒णाय॑ ब॒भ्रवे॒ नमः॑ कृणोमि॒ वन्या॑य त॒क्मने॑ ॥

    स्वर सहित पद पाठ

    अ॒यम् । य:। अ॒भि॒ऽशो॒च॒यि॒ष्णु: । विश्वा॑ । रू॒पाणि॑ । हरि॑ता । कृ॒णोषि॑ । तस्मै॑ । ते॒ । अ॒रु॒णाय॑ । ब॒भ्रवे॑ । नम॑: । कृ॒णो॒मि॒ । वन्या॑य । त॒क्मने॑ ॥२०.३॥


    स्वर रहित मन्त्र

    अयं यो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोषि। तस्मै तेऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने ॥

    स्वर रहित पद पाठ

    अयम् । य:। अभिऽशोचयिष्णु: । विश्वा । रूपाणि । हरिता । कृणोषि । तस्मै । ते । अरुणाय । बभ्रवे । नम: । कृणोमि । वन्याय । तक्मने ॥२०.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 20; मन्त्र » 3

    टिप्पणीः - ३−(अयम्) निर्दिष्टः (य) तक्मा (अभिशोचयिष्णुः) णेश्छन्दसि। पा० ३।२।१३७। इति शुच शोके−इष्णुच्। सर्वत शोकमुत्पादयन् (विश्वा) सर्वाणि (रूपाणि) सौन्दर्याणि (हरिता) हृञ् हरणे−इतच्। रक्तदूषणेन नीलपीतमिश्रितवर्णानि हरिद्रावर्णानि वा (कृणोषि) करोषि। (तस्मै) तादृशाय (ते) तुभ्यम् (अरुणाय) रक्तवर्णाय (बभ्रवे) पिङ्गलवर्णाय (नमः) नमस्कारम् (कृणोमि) करोमि (वन्याय) वने भवाय (तक्मने) म० १। कृच्छजीवनकारिणे ज्वराय ॥

    इस भाष्य को एडिट करें
    Top