Loading...
अथर्ववेद > काण्ड 6 > सूक्त 37

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 37/ मन्त्र 1
    सूक्त - अथर्वा देवता - चन्द्रमाः छन्दः - अनुष्टुप् सूक्तम् - शापनाशन सूक्त

    उप॒ प्रागा॑त्सहस्रा॒क्षो यु॒क्त्वा श॒पथो॒ रथ॑म्। श॒प्तार॑मन्वि॒च्छन्मम॒ वृक॑ इ॒वावि॑मतो गृ॒हम् ॥

    स्वर सहित पद पाठ

    उप॑ । प्र । अ॒गा॒त् । स॒ह॒स्र॒ऽअ॒क्ष: । यु॒क्त्वा । श॒पथ॑: । रथ॑म् । श॒प्तार॑म् । अ॒नु॒ऽइ॒च्छन् । मम॑ । वृक॑:ऽइव । अवि॑ऽमत: । गृ॒हम् ॥३७.१॥


    स्वर रहित मन्त्र

    उप प्रागात्सहस्राक्षो युक्त्वा शपथो रथम्। शप्तारमन्विच्छन्मम वृक इवाविमतो गृहम् ॥

    स्वर रहित पद पाठ

    उप । प्र । अगात् । सहस्रऽअक्ष: । युक्त्वा । शपथ: । रथम् । शप्तारम् । अनुऽइच्छन् । मम । वृक:ऽइव । अविऽमत: । गृहम् ॥३७.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 37; मन्त्र » 1

    टिप्पणीः - १−(उप) समीपे (प्र) प्रकर्षेण (अगात्) आगतवान् (सहस्राक्षः) अ० ३।११।३। सहस्रेषु व्यवहारेषु अक्षि दृष्टिर्यस्य सः। बहुदर्शी (युक्त्वा) संयोज्य (शपथः) अ० २।७।२। शम् शान्तिकरणे−ड+पथ गतौ−अच्। शस्य मङ्गलस्य पथो यस्मात् सः। शान्तिमार्गदर्शकः (रथम्) यानम् (शप्तारम्) शापकारिणम्। कुवचनभाषिणम् (अन्विच्छन्) अनुसृत्य गच्छन् (मम) (वृकः) हिंस्रजन्तुविशेषः (इव) यथा (अविमतः) अवीनां मेषाणां स्वामिनः पुरुषस्य (गृहम्) गेहम् ॥

    इस भाष्य को एडिट करें
    Top