Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 36/ मन्त्र 3
अ॒ग्निः परे॑षु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य। स॒म्राडेको॒ वि रा॑जति ॥
स्वर सहित पद पाठअ॒ग्नि: । परे॑षु । धाम॑ऽसु । काम॑: ।भूतस्य॑ । भव्य॑स्य । स॒म्ऽराट् । एक॑: । वि । रा॒ज॒ति॒ ॥३६.३॥
स्वर रहित मन्त्र
अग्निः परेषु धामसु कामो भूतस्य भव्यस्य। सम्राडेको वि राजति ॥
स्वर रहित पद पाठअग्नि: । परेषु । धामऽसु । काम: ।भूतस्य । भव्यस्य । सम्ऽराट् । एक: । वि । राजति ॥३६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 36; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अग्निः) सर्वव्यापकः परमेश्वरः (परेषु) दूरेषु (धामसु) स्थानेषु (कामः) कमु कान्तौ−घञ्। कमनीयः (भूतस्य) अतीतस्य (भव्यस्य) भविष्यतः कालस्य (सम्राट्) राजाधिराज (एकः) अद्वितीयः (वि) विविधम् (राजति) ईष्टे ॥
इस भाष्य को एडिट करें