Loading...
अथर्ववेद > काण्ड 6 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 36/ मन्त्र 1
    सूक्त - अथर्वा देवता - अग्निः छन्दः - गायत्री सूक्तम् - वैश्वनार सूक्त

    ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म्। अज॑स्रं घ॒र्ममी॑महे ॥

    स्वर सहित पद पाठ

    ऋ॒तऽवा॑नम् । वै॒श्वा॒न॒रम्। ऋ॒तस्य॑ । ज्योति॑ष: । पति॑म् । अज॑स्रम्। घ॒र्मम् । ई॒म॒हे॒ ॥३६.१॥


    स्वर रहित मन्त्र

    ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम्। अजस्रं घर्ममीमहे ॥

    स्वर रहित पद पाठ

    ऋतऽवानम् । वैश्वानरम्। ऋतस्य । ज्योतिष: । पतिम् । अजस्रम्। घर्मम् । ईमहे ॥३६.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 36; मन्त्र » 1

    टिप्पणीः - १−(ऋतावानम्) छन्दसीवनिपौ च। वा० पा० ५।२।१०९। इति मत्वर्थे−वनिप्। सत्यमयम् (वैश्वानरम्) सर्वस्य नायकम् (ऋतस्य) धनस्य−निघ० २।१०। (ज्योतिषः) प्रकाशस्य (पतिम्) स्वामिनम् (अजस्रम्) सततम् (घर्म्मम्) अ० ४।१।२। प्रकाशम् (ईमहे) ईङ् गतौ, श्यनो लुक् द्विकर्मकः, याचामहे−निघ० ३।१९ ॥

    इस भाष्य को एडिट करें
    Top