Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 35/ मन्त्र 3
वै॑श्वान॒रोऽङ्गि॑रसां॒ स्तोम॑मु॒क्थं च॑ चाक्लृपत्। एषु॑ द्यु॒म्नं स्वर्यमत् ॥
स्वर सहित पद पाठवै॒श्वा॒न॒र: । अङ्गि॑रसाम् । स्तोम॑म् । उ॒क्थम् । च॒ । च॒क्लृ॒प॒त् । आ । ए॒षु॒ । द्यु॒म्नम् । स्व᳡: । य॒म॒त् ॥३५.३॥
स्वर रहित मन्त्र
वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाक्लृपत्। एषु द्युम्नं स्वर्यमत् ॥
स्वर रहित पद पाठवैश्वानर: । अङ्गिरसाम् । स्तोमम् । उक्थम् । च । चक्लृपत् । आ । एषु । द्युम्नम् । स्व: । यमत् ॥३५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 35; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(वैश्वानरः) सर्वनरहितः (अङ्गिरसाम्) अ० २।५।२। ज्ञानिनां महर्षीणाम् (स्तोमम्) स्तुत्यं कर्म (उक्थम्) प्रकथनीयं गुणम् (च) (चक्लृपत्) कृपू सामर्थ्ये−लेट्। छान्दसं द्वित्वम्। कल्पयेत्। समर्थं कुर्य्यात् (एषु) अङ्गिरःसु (द्युम्नम्) तृषिशुषिरसिभ्यः कित्। उ० ३।१२। इति द्युत दीप्तौ−न कित्, तकारस्य मकारः। यद्वा, द्यु अभिगमने−न, मगागमः। द्युम्नं द्योततेर्यशो वान्नं वा−निरु० ५।५। द्योतमानं यशः। अन्नम् (स्वः) सुष्ठु अरणीयं प्राप्तव्यं सुखम् (यमत्) यमु उपरमे−लेट्। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इकारलोपः। उपरमेत्। तिष्ठेत् ॥
इस भाष्य को एडिट करें