Loading...
अथर्ववेद > काण्ड 6 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 35/ मन्त्र 2
    सूक्त - कौशिक देवता - वैश्वानरः छन्दः - गायत्री सूक्तम् - वैश्वनार सूक्त

    वै॑श्वान॒रो न॒ आग॑मदि॒मं य॒ज्ञं स॒जूरुप॑। अ॒ग्निरु॒क्थेष्वंह॑सु ॥

    स्वर सहित पद पाठ

    वै॒श्वा॒न॒र । न॒: । आ । अ॒ग॒म॒त् । इ॒मम् । य॒ज्ञम् । स॒ऽजू: । उप॑ । अ॒ग्नि: । उ॒क्थेषु॑ । अंह॑ऽसु ॥३५.२॥


    स्वर रहित मन्त्र

    वैश्वानरो न आगमदिमं यज्ञं सजूरुप। अग्निरुक्थेष्वंहसु ॥

    स्वर रहित पद पाठ

    वैश्वानर । न: । आ । अगमत् । इमम् । यज्ञम् । सऽजू: । उप । अग्नि: । उक्थेषु । अंहऽसु ॥३५.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 35; मन्त्र » 2

    टिप्पणीः - २−(वैश्वानरः) सर्वनायकः (नः) अस्मान् (आ अगमत्) प्राप्तवान् (इमम्) क्रियमाणम् (यज्ञम्) पूजनीयं व्यवहारम् (सजूः) सह+जुषी प्रीतिसेवनयोः−क्विप्। ससजुषो रुः। पा० ८।२।६६। इति रुत्वम्। र्वोरुपधाया दीर्घ इकः। पा० ८।२।७६। इति दीर्घः। जुषा सह वर्तमानः। प्रीतियुक्तः (उप) उपेत्य (अग्निः) सर्वव्यापकः परमेश्वरः (उक्थेषु) अ० २।१२।२। प्रकथनीयेषु गुणेषु (अहसु) अहि गतौ−अच्। प्राप्तव्येषु ॥

    इस भाष्य को एडिट करें
    Top