Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 4/ मन्त्र 1
सूक्त - अथर्वा
देवता - त्वष्टा, पर्जन्यः, ब्रह्मणस्पतिः, अदितिः
छन्दः - पथ्याबृहती
सूक्तम् - आत्मगोपन सूक्त
त्वष्टा॑ मे॒ दैव्यं॒ वचः॑ प॒र्जन्यो॒ ब्रह्म॑ण॒स्पतिः॑। पु॒त्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नु पा॑तु नो दु॒ष्टरं॒ त्राय॑माणं॒ सहः॑ ॥
स्वर सहित पद पाठत्वष्टा॑ । मे॒ । दैव्य॑म् । वच॑: । प॒र्जन्य॑: । ब्रह्म॑ण: । पति॑: । पु॒त्रै: । भातृ॑ऽभि: । अदि॑ति: । नु। पा॒तु॒: । न॒: । दु॒स्तर॑म् । त्राय॑माणम् । सह॑: ॥४.१॥
स्वर रहित मन्त्र
त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः। पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः ॥
स्वर रहित पद पाठत्वष्टा । मे । दैव्यम् । वच: । पर्जन्य: । ब्रह्मण: । पति: । पुत्रै: । भातृऽभि: । अदिति: । नु। पातु: । न: । दुस्तरम् । त्रायमाणम् । सह: ॥४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 4; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(त्वष्टा) अ० २।५।६। सर्वस्रष्टा (मे) मम (दैव्यम्) देव−यञ्। देवहितम् (वचः) वाक्यम् (पर्जन्यः) अ० १।२।१। सेचकः (ब्रह्मणः) प्रवृद्धस्य जगतः (पतिः) पालकः (पुत्रैः) अस्माकं सुतैः सह (भ्रातृभिः) सहोदरैः (अदितिः) अ० २।२८।४। अविनाशी परमेश्वरः (नु) क्षिप्रम् (पातु) रक्षतु (नः) अस्माकम् (दुस्तरम्) दुस्तरणीयम्। अजेयम् (त्रायमाणम्) रक्षकम् (सहः) बलम् ॥
इस भाष्य को एडिट करें