Loading...
अथर्ववेद > काण्ड 6 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 4/ मन्त्र 2
    सूक्त - अथर्वा देवता - अंशः, भगः, वरुणः, मित्रम्, अर्यमा, अदितिः, मरुद्गणः छन्दः - संस्तारपङ्क्तिः सूक्तम् - आत्मगोपन सूक्त

    अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑। अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम् ॥

    स्वर सहित पद पाठ

    अंश॑: । भग॑: । वरु॑ण: । मि॒त्र: । अ॒र्य॒मा । अदि॑ति: । पान्तु॑ । म॒रुत॑: । अप॑ । तस्य॑ । द्वेष॑: । ग॒मे॒त् । अ॒भि॒ऽह्रुत॑: । य॒व॒य॒त् । शत्रु॑म् । अन्ति॑तम् ॥४.२॥


    स्वर रहित मन्त्र

    अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः। अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥

    स्वर रहित पद पाठ

    अंश: । भग: । वरुण: । मित्र: । अर्यमा । अदिति: । पान्तु । मरुत: । अप । तस्य । द्वेष: । गमेत् । अभिऽह्रुत: । यवयत् । शत्रुम् । अन्तितम् ॥४.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 4; मन्त्र » 2

    टिप्पणीः - २−(अंशः) विभाजकः (भगः) भजनीयः। सेवनीयः (वरुणः) अपानः (मित्रः) प्राणः (अर्यमा) अ० ३।१४।२। अन्धकारनाशक आदित्यः (अदितिः) अ० २।२८।४। अदीना भूमिः (पान्तु) रक्षन्तु (मरुतः) अ० १।२०।१। शूरान् देवान् (अप) दूरीकरणे (तस्य) तर्द हिंसायाम्−ड। हिंसकस्य। चोरस्य (द्वेषः) द्विष−असुन्। अप्रीतिम् (गमेत्) अन्तर्गतणिजर्थः, बहुवचनस्यैकवचनम्। गमयेयुः (अभिह्रुतः) ह्वृ कौटिल्ये−क्विप्। कुटिलस्य (यवयत्) यु मिश्रणामिश्रयणयोः−ण्यन्ताल्लेटि अडागमो वृद्ध्यभावो बहुवनस्यैकवचनं च। यवयेयुः पृथक् कुर्युः (शत्रुम्) वैरिणम् (अन्तितम्) अति बन्धने−कर्तरि क्तः। बन्धकम् ॥

    इस भाष्य को एडिट करें
    Top