Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 42/ मन्त्र 3
सूक्त - भृग्वङ्गिरा
देवता - मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - परस्परचित्तैदीकरण सूक्त
अ॒भि ति॑ष्ठामि ते म॒न्युं पार्ष्ण्या॒ प्रप॑देन च। यथा॑व॒शो न वादि॑षो॒ मम॑ चित्तमु॒पाय॑सि ॥
स्वर सहित पद पाठअ॒भि । ति॒ष्ठा॒मि॒ । ते॒ । म॒न्युम् । पार्ष्ण्या॑ । प्रऽप॑देन । च॒ । यथा॑ । अ॒व॒श: । न । वादि॑ष: । मम॑ । चि॒त्तम् । उ॒प॒ऽआय॑सि ॥४२.३॥
स्वर रहित मन्त्र
अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च। यथावशो न वादिषो मम चित्तमुपायसि ॥
स्वर रहित पद पाठअभि । तिष्ठामि । ते । मन्युम् । पार्ष्ण्या । प्रऽपदेन । च । यथा । अवश: । न । वादिष: । मम । चित्तम् । उपऽआयसि ॥४२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 42; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अभि तिष्ठामि) अभिभवामि (ते) तव (मन्युम् क्रोधम्) (पार्ष्ण्या) पादापरभागेन (प्रपदेन) पादाग्रेण (यथा) येन प्रकारेण (अवशः) परवशः। क्रोधवशः (न) न भूत्वा (वादिषः) वदेर्लेटि अडागमः, सिप् च। त्वं ब्रूयाः (मम) (चित्तम्) अन्तःकरणम् (उप−आयसि) अ० १।३४।२। उपागच्छसि। आदरेण सर्वतः प्राप्नोषि ॥
इस भाष्य को एडिट करें