Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 45/ मन्त्र 3
सूक्त - यम
देवता - दुःष्वप्ननाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दुःष्वप्ननाशन
यदि॑न्द्र ब्रह्मणस्प॒तेऽपि॒ मृषा॒ चरा॑मसि। प्रचे॑ता न आङ्गिर॒सो दु॑रि॒तात्पा॒त्वंह॑सः ॥
स्वर सहित पद पाठयत् । इ॒न्द्र॒ । ब्र॒ह्म॒ण॒: । प॒ते॒ । अपि॑ । मृषा॑ । चरा॑मसि । प्रऽचे॑ता: । न॒: । अ॒ङ्गि॒र॒स॒: । दु॒:ऽइ॒तात् । पा॒तु॒ । अंह॑स: ॥४५.३॥
स्वर रहित मन्त्र
यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि। प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः ॥
स्वर रहित पद पाठयत् । इन्द्र । ब्रह्मण: । पते । अपि । मृषा । चरामसि । प्रऽचेता: । न: । अङ्गिरस: । दु:ऽइतात् । पातु । अंहस: ॥४५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 45; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यत् अपि) यत्किञ्चिदपि पापम् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (ब्रह्मणस्पतेः) बृहतां लोकानां पालक (मृषा) असत्यव्यवहारेण (चरामसि) चरामः। वयं कुर्मः (प्रचेताः) प्रकृष्टज्ञानोपेतः परमेश्वरः (नः) अस्मान् (आङ्गिरसः) अङ्गिरस्−अण्। अङ्गिरोभ्यो ज्ञानिभ्यो हितः (दुरितात्) दुर्गतेः। कष्टात् (पातु) रक्षतु (अंहसः) पापात् ॥
इस भाष्य को एडिट करें