Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 46/ मन्त्र 1
सूक्त - अङ्गिरस्
देवता - दुःष्वप्ननाशनम्
छन्दः - ककुम्मती विष्टारपङ्क्तिः
सूक्तम् - दुःष्वप्ननाशन
यो न जी॒वोऽसि॒ न मृ॒तो दे॒वाना॑ममृतग॒र्भोऽसि॑ स्वप्न। व॑रुणा॒नी ते॑ मा॒ता य॒मः पि॒ताररु॒र्नामा॑सि ॥
स्वर सहित पद पाठय: । न । जी॒व : । असि॑ । न । मृ॒त: । दे॒वाना॑म् । अ॒मृ॒त॒ऽग॒र्भ: । अ॒सि॒ । स्व॒प्न॒ । व॒रु॒णा॒नी । ते॒ । मा॒ता । य॒म: । पि॒ता । अर॑रु: । नाम॑ । अ॒सि॒ ॥४६.१॥
स्वर रहित मन्त्र
यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न। वरुणानी ते माता यमः पिताररुर्नामासि ॥
स्वर रहित पद पाठय: । न । जीव : । असि । न । मृत: । देवानाम् । अमृतऽगर्भ: । असि । स्वप्न । वरुणानी । ते । माता । यम: । पिता । अररु: । नाम । असि ॥४६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 46; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यः) यस्त्वम् (न) निषेधे (जीवः) प्राणधारकः (असि) (न) (मृतः) मृतकः। त्यक्तप्राणः (देवानाम्) इन्द्रियाणाम् (अमृतगर्भः) अमरणस्य सुखस्य गर्भ आधारः (असि) (स्वप्न) स्वपो नन्। पा० ३।३।९१। इति ञिष्वप् शये−नन्। यद्वा। कॄवृजॄ०। उ० ३।१०। इति नन्। हे निद्रे (वरुणानि) वृणोति आच्छादयतीति वरुणः, अन्धकारः अ० १।३।३। इन्द्रवरुणभवशर्व०। पा० ४।१।४९। इति वरुण−ङीपानुकौ। वरुणस्य अन्धकारस्य पत्नी पालयित्री शक्तिः। रात्रिः (ते) तव (माता) जननी (यमः) नियामकः सूर्यः (पिता) पालकः। जनकः (अररुः) अर्तेररुः। उ० ४।७६। इति ऋ गतिहिंसनयोः−अरु। हिंसकः। वयोनाशकः (असि) ॥
इस भाष्य को एडिट करें