Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 46/ मन्त्र 2
सूक्त - प्रचेता
देवता - दुःष्वप्ननाशनम्
छन्दः - त्र्यवसाना पञ्चपदा शक्वरीगर्भा जगती
सूक्तम् - दुःष्वप्ननाशन
वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः। अन्त॑कोऽसि मृ॒त्युर॑सि॒। तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दुः॒ष्वप्न्या॑त्पाहि ॥
स्वर सहित पद पाठवि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । दे॒व॒ऽजा॒मी॒नाम् । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: । अन्त॑क: । अ॒सि॒ । मृ॒त्यु: । अ॒सि॒ । तम् । त्वा॒ । स्व॒प्न॒ । तथा॑ । सम् । वि॒द्म॒ । स: । न॒: । स्व॒प्न॒ । दु॒:ऽस्वप्न्या॑त् । पा॒हि॒ ॥४६.२॥
स्वर रहित मन्त्र
विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः। अन्तकोऽसि मृत्युरसि। तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुःष्वप्न्यात्पाहि ॥
स्वर रहित पद पाठविद्म । ते । स्वप्न । जनित्रम् । देवऽजामीनाम् । पुत्र: । असि । यमस्य । करण: । अन्तक: । असि । मृत्यु: । असि । तम् । त्वा । स्वप्न । तथा । सम् । विद्म । स: । न: । स्वप्न । दु:ऽस्वप्न्यात् । पाहि ॥४६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 46; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(विद्म) जानीमः (ते) तव (स्वप्न) म० १। हे निद्रे (जनित्रम्) अ० १।२५।१। जन्मस्थानम् (देवजामीनाम्) नियो मिः। उ० ४।४३। इति या प्रापणे−मि, यस्य जः। इन्द्रियाणां जामीनां गतीनाम् (पुत्रः) अ० १।११।५। पुनातीति यः सः। पावकः। शोधकः (असि) (यमस्य) नियमस्य (करणः) करोतेः−ल्यु। कर्ता (अन्तकः) तत्करोतीत्युपसंख्यानम्। वा० पा० ३।१।२६। इति अन्त, णिच्−ण्वुल्। अन्तयतीति अन्तकः। अन्तकरः (असि) (मृत्युः) मरणकर्ता (तम्) तादृशम् (त्वा) त्वाम् (स्वप्न) (तथा) तेन प्रकारेण (सम्) सम्यक् (सः) स त्वम् (नः) अस्मान् (दुःस्वप्न्यात्) अ० ४।९।६। दुःस्वप्न−यत्। दुर् दुष्टेषु स्वप्नेषु भवात् कुविचारात् ॥
इस भाष्य को एडिट करें