Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 47/ मन्त्र 1
सूक्त - अङ्गिरस्
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान्वै॑श्वान॒रो वि॑श्व॒कृद्वि॒श्वशं॑भूः। स नः॑ पाव॒को द्रवि॑णे दधा॒त्वायु॑ष्मन्तः स॒हभ॑क्षाः स्याम ॥
स्वर सहित पद पाठअ॒ग्नि: । प्रा॒त॒:ऽस॒व॒ने । पा॒तु॒ । अ॒स्मान् । वै॒श्वा॒न॒र: । वि॒श्व॒ऽकृत् । वि॒श्वऽशं॑भू: । स: । न॒: । पा॒व॒क: । द्रवि॑णे । द॒धा॒तु॒ । आयु॑ष्मन्त: । स॒हऽभ॑क्षा: । स्या॒म॒ ॥४७.१॥
स्वर रहित मन्त्र
अग्निः प्रातःसवने पात्वस्मान्वैश्वानरो विश्वकृद्विश्वशंभूः। स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम ॥
स्वर रहित पद पाठअग्नि: । प्रात:ऽसवने । पातु । अस्मान् । वैश्वानर: । विश्वऽकृत् । विश्वऽशंभू: । स: । न: । पावक: । द्रविणे । दधातु । आयुष्मन्त: । सहऽभक्षा: । स्याम ॥४७.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 47; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अग्निः) सर्वव्यापकः परमेश्वरः (प्रातःसवने) प्रातःकालस्य यज्ञे (पातु) रक्षतु (अस्मान्) धार्मिकान् (वैश्वानरः) अ० १।१०।४। सर्वनरहितः (विश्वकृत्) सर्वस्य जगतः कर्ता (विश्वशंभूः) भू−क्विप्। सर्वस्मिन् जगति सुखस्य भावयिता (सः) परमेश्वरः (नः) अस्मान् (पावकः) शोधकः (द्रविणे) अ० २।२९।३। धने (दधातु) धरतु (आयुष्मन्तः) प्रशस्तेन जीवनेन युक्ताः (सहभक्षाः) सहभोजनाः (स्याम) भवेम ॥
इस भाष्य को एडिट करें