Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 52/ मन्त्र 2
नि गावो॑ गो॒ष्ठे अ॑सद॒न्नि मृ॒गासो॑ अविक्षत। न्यू॒र्मयो॑ न॒दीनं॒ न्यदृष्टा॑ अलिप्सत ॥
स्वर सहित पद पाठनि । गाव॑: । गो॒ऽस्थे । अ॒स॒द॒न् । नि । मृ॒गास॑: । अ॒वि॒क्ष॒त॒ । नि । ऊ॒र्मय॑: । न॒दीना॑म् । नि । अ॒दृष्टा॑: । अ॒लि॒प्स॒त॒ ॥५२.२॥
स्वर रहित मन्त्र
नि गावो गोष्ठे असदन्नि मृगासो अविक्षत। न्यूर्मयो नदीनं न्यदृष्टा अलिप्सत ॥
स्वर रहित पद पाठनि । गाव: । गोऽस्थे । असदन् । नि । मृगास: । अविक्षत । नि । ऊर्मय: । नदीनाम् । नि । अदृष्टा: । अलिप्सत ॥५२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 52; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(नि) अन्तर्भूय (गावः) किरणाः (गोष्ठे) गवां किरणानां स्थाने अन्तरिक्षे (असदन्) निषण्णा अभूवन् (नि) (मृगासः) मृग अन्वेषणे−क, असुक् च। मृगाः। अन्वेषकाः पुरुषाः (अविक्षत) नेर्विशः। पा० १।३।१७। इत्यात्मनेपदम्। शल इगुपधादनिटः क्सः। पा० ३।१।४५। इति लुङि च्लेः क्सः। स्वकार्याणि प्रविष्टा अभूवन् (नि नि) निश्चयेनैव (ऊर्मयः) अर्त्तेरूच्च। उ० ४।४४। इति ऋ गतौ−मि। गतिक्रियाः (नदीनाम्) नद−ङीप्। नदः स्तोता−निघ० ३।१६। स्तोत्रीणां प्रजानाम् (अदृष्टाः) अगोचराः पङ्क्तीः। अन्धकारयुक्तान् पदार्थान् (अलिप्सत) लभेः सनि। सनिमीमाघुरभलभ०। पा० ७।४।५४। इति अचः स्थाने इस्। स्कोः संयोगा०। पा० ८।२।२९। सकारलोपः। लब्धुमैच्छन् ॥
इस भाष्य को एडिट करें