Loading...
अथर्ववेद > काण्ड 6 > सूक्त 52

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 52/ मन्त्र 3
    सूक्त - भागलि देवता - सूर्यः छन्दः - अनुष्टुप् सूक्तम् - भैषज्य सूक्त

    आ॑यु॒र्ददं॑ विप॒श्चितं॑ श्रु॒तां कण्व॑स्य वी॒रुध॑म्। आभा॑रिषं वि॒श्वभे॑षजीम॒स्यादृष्टा॒न्नि श॑मयत् ॥

    स्वर सहित पद पाठ

    आ॒यु॒:ऽदद॑म् । वि॒प॒:ऽचित॑म् । श्रु॒ताम् । कण्व॑स्य । वी॒रुध॑म् । आ । अ॒भा॒रि॒ष॒म् । वि॒श्वऽभे॑षजीम् । अ॒स्य । अ॒दृष्टा॑न् । नि । श॒म॒य॒त् ॥५२.३॥


    स्वर रहित मन्त्र

    आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम्। आभारिषं विश्वभेषजीमस्यादृष्टान्नि शमयत् ॥

    स्वर रहित पद पाठ

    आयु:ऽददम् । विप:ऽचितम् । श्रुताम् । कण्वस्य । वीरुधम् । आ । अभारिषम् । विश्वऽभेषजीम् । अस्य । अदृष्टान् । नि । शमयत् ॥५२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 52; मन्त्र » 3

    टिप्पणीः - ३−(आयुर्ददम्) दद दाने−क्विप्। उत्कृष्टजीवनस्य दात्रीम् (विपश्चितम्) वि+प्र+चिती संज्ञाने−क्विप्, पृषोदरादिरूपम्। विविधं प्रकृष्टं ज्ञापयित्रीम् (श्रुताम्) प्रसिद्धाम् (कण्वस्य) अशूप्रुषिलटिकणि०। उ० १।१५१। इति कण शब्दे−क्वन्। मेधाविनः पुरुषस्य−निघ० ३।१५। (वीरुधम्) विविधं प्रादुर्भवित्रीम् (आ अभारिषम्) हृञ् प्रापणे, हस्य भत्वम् आहार्षम्। प्राप्तवानस्मि (विश्वभेषजीम्) सर्वस्य भयस्य शमनी वेदविद्याम् (अस्य) पुरुषस्य (अदृष्टान्) अलक्षितान् दोषान् कुसंस्कारान् (नि शमयत्) शम उपशमने, ण्यन्ताल्लेटि अडागमः। निशमयतु ॥

    इस भाष्य को एडिट करें
    Top