Loading...
अथर्ववेद > काण्ड 6 > सूक्त 53

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 53/ मन्त्र 2
    सूक्त - बृहच्छुक्र देवता - वैश्वानरः छन्दः - त्रिष्टुप् सूक्तम् - सर्वतोरक्षण सूक्त

    पुनः॑ प्रा॒णः पुन॑रा॒त्मा न॒ ऐतु॒ पुन॒श्चक्षुः॒ पुन॒रसु॑र्न॒ ऐतु॑। वै॑श्वान॒रो नो॒ अद॑ब्धस्तनू॒पा अ॒न्तस्ति॑ष्ठाति दुरि॒तानि॒ विश्वा॑ ॥

    स्वर सहित पद पाठ

    पुन॑: । प्रा॒ण:। पुन॑: । आ॒त्मा । न॒: । आ । ए॒तु॒ । पुन॑: । चक्षु॑: । पुन॑: । असु॑: । न॒: । आ । ए॒तु॒ । वै॒श्वा॒न॒र: । न॒: । अद॑ब्ध: । त॒नू॒ऽपा: । अ॒न्त: । ति॒ष्ठा॒ति॒ ।दु॒:ऽइ॒तानि॑ । विश्वा॑ ॥५३.२॥


    स्वर रहित मन्त्र

    पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु। वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा ॥

    स्वर रहित पद पाठ

    पुन: । प्राण:। पुन: । आत्मा । न: । आ । एतु । पुन: । चक्षु: । पुन: । असु: । न: । आ । एतु । वैश्वानर: । न: । अदब्ध: । तनूऽपा: । अन्त: । तिष्ठाति ।दु:ऽइतानि । विश्वा ॥५३.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 53; मन्त्र » 2

    टिप्पणीः - २−(पुनः) वारं वारम्। विश्रामानन्तरं द्वितीये जन्मनि वा (प्राणः) जीवस्थितिहेतुः प्राणवायुः (पुनः) (आत्मा) आत्मबलम् (नः) अस्मान् (ऐतु) आगच्छतु। प्राप्नोतु (पुनः) (चक्षुः) दर्शनशक्तिः (पुनः) (असुः) प्रज्ञा−निघ० ३।९। (नः) (ऐतु) (वैश्वानरः) सर्वनरहितः परमेश्वरः (नः) अस्माकम् (तनूपाः) शरीरपालकः (अन्तः) मध्ये। अन्तरान्तरेणयुक्ते। पा० २।३।४। इति द्वितीया (तिष्ठाति) लेट्। तिष्ठेत् (दुरितानि) दुःखानि (विश्वा) सर्वाणि ॥

    इस भाष्य को एडिट करें
    Top