Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 54/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - अग्नीषोमौ
छन्दः - अनुष्टुप्
सूक्तम् - अमित्रदम्भन सूक्त
अ॒स्मै क्ष॒त्रम॑ग्नीषोमाव॒स्मै धा॑रयतं र॒यिम्। इ॒मं रा॒ष्ट्रस्या॑भीव॒र्गे कृ॑णु॒तं यु॒ज उत्त॑रम् ॥
स्वर सहित पद पाठअ॒स्मै । क्ष॒त्रम् । अ॒ग्नी॒षो॒मौ॒ । अ॒स्मै । धा॒र॒य॒त॒म् । र॒यिम् । इ॒मम् । रा॒ष्ट्रस्य॑ । अ॒भि॒ऽव॒र्गे । कृ॒णु॒तम् । यु॒जे। उत्ऽत॑रम् ॥५४.२॥
स्वर रहित मन्त्र
अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम्। इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥
स्वर रहित पद पाठअस्मै । क्षत्रम् । अग्नीषोमौ । अस्मै । धारयतम् । रयिम् । इमम् । राष्ट्रस्य । अभिऽवर्गे । कृणुतम् । युजे। उत्ऽतरम् ॥५४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 54; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अस्मै) पुरुषाय (क्षत्रम्) राष्ट्रम् (अग्नीषोमौ) सूर्यचन्द्रौ (अस्मै) (धारयतम्) दृढीकुरुतम् (रयिम्) वैभवम् (इमम्) पुरुषम् (राष्ट्रस्य) राज्यस्य (अभीवर्गे) अ० ३।५।२। राज्यमण्डले (कृणुतम्) कुरुतम् (युजे) मित्रवर्गहिताय (उत्तरम्) उच्चतरम् ॥
इस भाष्य को एडिट करें