Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 56/ मन्त्र 2
नमो॑ऽस्त्वसि॒ताय॒ नम॒स्तिर॑श्चिराजये। स्व॒जाय॑ ब॒भ्रवे॒ नमो॒ नमो॑ देवज॒नेभ्यः॑ ॥
स्वर सहित पद पाठनम॑: । अ॒स्तु॒ । अ॒सि॒ताय॑ । नम॑: । तिर॑श्चिऽराजये । स्व॒जाय॑ । ब॒भ्रवे॑ । नम॑: । नम॑: । दे॒व॒ऽज॒नेभ्य॑: ॥५६.२॥
स्वर रहित मन्त्र
नमोऽस्त्वसिताय नमस्तिरश्चिराजये। स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ॥
स्वर रहित पद पाठनम: । अस्तु । असिताय । नम: । तिरश्चिऽराजये । स्वजाय । बभ्रवे । नम: । नम: । देवऽजनेभ्य: ॥५६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 56; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(नमः) नमयति शत्रून्। वज्रनाम−निघ० २।२०। (अस्तु) भवतु (असिताय) अ० ३।२७।१। कृष्णसर्पाय (नमः) वज्रः (तिरश्चिराजये) अ० ३।२७।२। तिरश्च्यः, तिर्यगवस्थिता राजयः पङ्क्तयो यस्य तथाविधाय सर्पाय (स्वजाय) अ० ३।२७।४। कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्। वा० पा० ३।२।५। इति ष्वञ्ज आलिङ्गने−क। अनिदितां हल उपधाया०। पा० ६।४।२४। इति नलोपः। आलिङ्गनशीलाय सर्पाय (बभ्रवे) पिङ्गलवर्णाय। अन्यद् गतम् ॥
इस भाष्य को एडिट करें