Loading...
अथर्ववेद > काण्ड 6 > सूक्त 58

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 58/ मन्त्र 2
    सूक्त - अथर्वा देवता - इन्द्रः, द्यावापृथिवी, सविता छन्दः - प्रस्तारपङ्क्तिः सूक्तम् - यशः प्राप्ति सूक्त

    यथेन्द्रो॒ द्यावा॑पृथि॒व्योर्यश॑स्वा॒न्यथाप॒ ओष॑धीषु॒ यश॑स्वतीः। ए॒वा विश्वे॑षु दे॒वेषु॑ व॒यं सर्वे॑षु य॒शसः॑ स्याम ॥

    स्वर सहित पद पाठ

    यथा॑ । इन्द्र॑: । द्यावा॑पृथि॒व्यो: । यश॑स्वान् । यथा॑ । आप॑: । ओष॑धीषु । यश॑स्वती: । ए॒व । विश्वे॑षु । दे॒वेषु॑ । व॒यम् । सर्वे॑षु । य॒शस॑: । या॒म॒ ॥५८.२॥


    स्वर रहित मन्त्र

    यथेन्द्रो द्यावापृथिव्योर्यशस्वान्यथाप ओषधीषु यशस्वतीः। एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥

    स्वर रहित पद पाठ

    यथा । इन्द्र: । द्यावापृथिव्यो: । यशस्वान् । यथा । आप: । ओषधीषु । यशस्वती: । एव । विश्वेषु । देवेषु । वयम् । सर्वेषु । यशस: । याम ॥५८.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 58; मन्त्र » 2

    टिप्पणीः - २−(यथा) येन प्रकारेण (इन्द्रः) परमेश्वरः (द्यावापृथिव्योः) सूर्यभूलोकयोर्मध्ये (यशस्वान्) कीर्तिमान् (यथा) (आपः) जलानि (ओषधीषु) व्रीहियवादिपदार्थेषु (यशस्वतीः) कीर्तिमत्यः (एव) एवम् (विश्वेषु) समस्तेषु (देवेषु) व्यवहारकुशलेषु महात्मसु (वयम्) विज्ञानिनः पुरुषाः (सर्वेषु) व्याप्तेषु गुणेषु (यशसः) अ० ६।३९।२। आत्मनो यश इच्छन्तः (स्याम) भवेम ॥

    इस भाष्य को एडिट करें
    Top