Loading...
अथर्ववेद > काण्ड 6 > सूक्त 58

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 58/ मन्त्र 1
    सूक्त - अथर्वा देवता - इन्द्रः, द्यावापृथिवी, सविता छन्दः - जगती सूक्तम् - यशः प्राप्ति सूक्त

    य॒शसं॒ मेन्द्रो॑ म॒घवा॑न्कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे। य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म् ॥

    स्वर सहित पद पाठ

    य॒शस॑म् । मा॒ । इन्द्र॑: । म॒घऽवा॑न् । कृ॒णो॒तु॒ । य॒शस॑म् । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । य॒शस॑म् । मा॒ । दे॒व:। स॒वि॒ता । कृ॒णो॒तु॒ । प्रि॒य: । दा॒तु: । दक्षि॑णाया: । इ॒ह । स्या॒म् ॥५८.१॥


    स्वर रहित मन्त्र

    यशसं मेन्द्रो मघवान्कृणोतु यशसं द्यावापृथिवी उभे इमे। यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम् ॥

    स्वर रहित पद पाठ

    यशसम् । मा । इन्द्र: । मघऽवान् । कृणोतु । यशसम् । द्यावापृथिवी इति । उभे इति । इमे इति । यशसम् । मा । देव:। सविता । कृणोतु । प्रिय: । दातु: । दक्षिणाया: । इह । स्याम् ॥५८.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 58; मन्त्र » 1

    टिप्पणीः - १−(यशसम्) अर्शआदित्वाद्−अच्। यशस्विनम्। कीर्तियुक्तम् (मा) माम् (इन्द्रः) परमेश्वरः (मघवान्) मघं धनम्−निघ० २।१०। मतुप्। महाधनी (कृणोतु) करोतु (यशसम्) (द्यावापृथिवी) सूर्यभूलोकौ (उभे) (इमे) दृश्यमाने (यशसम्) (मा) (देवः) व्यवहारकुशलः (सविता) विद्याप्रेरक आचार्यः (प्रियः) प्रीतिकरः (दातुः) दानशीलस्य राज्ञः (दक्षिणायाः) दानस्य। प्रतिष्ठायाः (इह) अत्र लोके (स्याम्) भवेयम् ॥

    इस भाष्य को एडिट करें
    Top