Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 60/ मन्त्र 2
अश्र॑मदि॒यम॑र्यमन्न॒न्यासां॒ सम॑नं य॒ती। अ॒ङ्गो न्वर्यमन्न॒स्या अ॒न्याः सम॑न॒माय॑ति ॥
स्वर सहित पद पाठअश्र॑मत् । इ॒यम् । अ॒र्य॒म॒न् । अ॒न्यासा॑म् । सम॑नम् । य॒ती । अ॒ङ्गो इति॑ । नु । अ॒र्य॒म॒न् । अ॒स्या: । अ॒न्या: । सम॑नम् । आ॒ऽअय॑ति ॥६०.२॥
स्वर रहित मन्त्र
अश्रमदियमर्यमन्नन्यासां समनं यती। अङ्गो न्वर्यमन्नस्या अन्याः समनमायति ॥
स्वर रहित पद पाठअश्रमत् । इयम् । अर्यमन् । अन्यासाम् । समनम् । यती । अङ्गो इति । नु । अर्यमन् । अस्या: । अन्या: । समनम् । आऽअयति ॥६०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 60; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अश्रमत्) श्रमु तपसि खेदे च। अतपत् तपश्चर्य्यो कृतवती (इयम्) पुरोवर्तिनी (अर्यमन्) हे न्यायकारिन् परमेश्वर (अन्यासाम्) कन्यानाम् (समनम्) सम्+अन प्राणने−अच्। यद्वा। स+मनु ज्ञाने−अच्। समनाः समनसः। समनं समननाद्वा सम्माननाद्वा−निरु० ७।१७। समनं संग्रामनाम−निघ० २।१७। विवाहोत्सवम्। संग्रामम् (यती) गच्छन्ती (अङ्गो) आभिमुख्यकरणे (नु) क्षिप्रम् (अर्यमन्) (अस्याः) कन्यायाः (अन्याः) कन्याः (समनम्) (आयति) अय गतौ, एकवचनं छान्दसम्। आयन्ति। आगच्छन्ति ॥
इस भाष्य को एडिट करें