Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 60/ मन्त्र 1
अ॒यमा या॑त्यर्य॒मा पु॒रस्ता॒द्विषि॑तस्तुपः। अ॒स्या इ॒च्छन्न॒ग्रुवै॒ पति॑मु॒त जा॒याम॒जान॑ये ॥
स्वर सहित पद पाठअ॒यम् । आ । या॒ति॒ । अ॒र्य॒मा । पु॒रस्ता॑त् । विसि॑तऽस्तुप: । अ॒स्यै । इ॒च्छन् । अ॒ग्रुवै॑ । पति॑म् । उ॒त । जा॒याम् । अ॒जान॑ये ॥६०.१॥
स्वर रहित मन्त्र
अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः। अस्या इच्छन्नग्रुवै पतिमुत जायामजानये ॥
स्वर रहित पद पाठअयम् । आ । याति । अर्यमा । पुरस्तात् । विसितऽस्तुप: । अस्यै । इच्छन् । अग्रुवै । पतिम् । उत । जायाम् । अजानये ॥६०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 60; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अयम्) पुरोदृश्यमानः (आ याति) आगच्छति (अर्यमा) अ० ३।१४।२। अन्धकारनाशकः सूर्यः (पुरस्तात्) अस्माकमग्रे (विषितस्तुपः) वि-षो अन्तकर्मणि−क्त। स्तुवो दीर्घश्च। उ० ३।२५। इति ष्टुञ् स्तुतौ−प। विषितो विज्ञातः स्तुपः स्तुतिर्यस्य सः। प्रसिद्धस्तोमः (अस्यै) प्रसिद्धायै गुणवत्यै (इच्छन्) अभिलष्यन् (अग्रुवै) जत्र्वादयश्च। उ० ४।१०२। इति अगि गतौ−रु, ऊङ्। ज्ञानवत्यै कन्यायै (पतिम्) भर्तारम् (जायाम्) पत्नीम् (अजानये) जायारहिताय। अविवाहिताय पुरुषाय ॥
इस भाष्य को एडिट करें