Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 59/ मन्त्र 3
वि॒श्वरू॑पां सु॒भगा॑म॒च्छाव॑दामि जीव॒लाम्। सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ॥
स्वर सहित पद पाठवि॒श्वऽरू॑पाम् । सु॒ऽभगा॑म् । अ॒च्छ॒ऽआव॑दामि । जी॒व॒लाम् । सा । न॑: । रु॒द्रस्य॑ । अ॒स्ताम् । हे॒तिम् । दू॒रम् । न॒य॒तु॒ । गोभ्य॑: ॥५९.३॥
स्वर रहित मन्त्र
विश्वरूपां सुभगामच्छावदामि जीवलाम्। सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥
स्वर रहित पद पाठविश्वऽरूपाम् । सुऽभगाम् । अच्छऽआवदामि । जीवलाम् । सा । न: । रुद्रस्य । अस्ताम् । हेतिम् । दूरम् । नयतु । गोभ्य: ॥५९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 59; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(विश्वरूपाम्) विश्वस्य रूपं रचनं यस्यास्ताम् जगद्रूपकर्त्रीम् (सुभगाम्) शोभनैश्वर्यवतीम् (अच्छावदामि) अच्छ सुष्ठु स्वागतेन आवदामि आह्वयामि (जीवलाम्) आतोऽनुपसर्गे कः। पा० ३।२।३। इति जीव+रा दाने−क, रस्य लत्वम्। जीवनदात्रीम्। यद्वा। सिध्मादिभ्यश्च। पा० ५।२।९७। इति जीव−मत्वर्थीयो लच्। जीवनवतीं शक्तिं परमेश्वरम् (सा) शक्तिः (नः) अस्माकम् (रुद्रस्य) अ० २।२७।६। दुःखनाशकस्य परमेश्वरस्य (अस्ताम्) असु क्षेपणे−क्त। क्षिप्ताम् (हेतिम्) ताडनाम् (दूरम्) (नयतु) गमयतु (गोभ्यः) भूमिभ्यः ॥
इस भाष्य को एडिट करें