Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 59/ मन्त्र 1
अ॑न॒डुद्भ्य॒स्त्वं प्र॑थ॒मं धे॒नुभ्य॒स्त्वम॑रुन्धति। अधे॑नवे॒ वय॑से॒ शर्म॑ यच्छ॒ चतु॑ष्पदे ॥
स्वर सहित पद पाठअ॒न॒डुत्ऽभ्य॑: । त्वम् । प्र॒थ॒मम् । धे॒नुऽभ्य॑:। त्वम् । अ॒रु॒न्ध॒ति॒ ।अधे॑नवे । वय॑से । शर्म॑ । य॒च्छ॒ । चतु॑:ऽपदे ॥५९.१॥
स्वर रहित मन्त्र
अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति। अधेनवे वयसे शर्म यच्छ चतुष्पदे ॥
स्वर रहित पद पाठअनडुत्ऽभ्य: । त्वम् । प्रथमम् । धेनुऽभ्य:। त्वम् । अरुन्धति ।अधेनवे । वयसे । शर्म । यच्छ । चतु:ऽपदे ॥५९.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 59; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अनडुद्भ्यः) अ० ४।११।१। अनसः प्राणस्य जीवनस्य च वाहकेभ्यः प्रापकेभ्यः पुरुषेभ्यः (त्वम्) (प्रथमम्) अ० १।१२।१। प्रथ ख्यातौ−अमच्। प्रख्यातम् (धेनुभ्यः) अ० ३।१०।१। धेनुर्धयतेर्वा धिनोतेर्वा−निरु० ११।४२। धि धारणे तर्पणे च−नु। तर्पयित्रीभ्यः स्त्रीभ्यः (त्वम्) (अरुन्धति) अ० ४।१२।१। हे अरोधनशीले शक्ते परमात्मन् (अधेनवे) अ० ३।१०।१। धेट् पाने−नु। दुग्धरहिताय (वयसे) अन्नप्राप्तये−निघ० २।७। (शर्म) गृहम्−निघ० ३।४। (चतुष्पदे) अ० २।३४।१। पादचतुष्टयोपेताय गवादिपशवे ॥
इस भाष्य को एडिट करें