Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 59/ मन्त्र 2
शर्म॑ यच्छ॒त्वोष॑धिः स॒ह दे॒वीर॑रुन्ध॒ती। कर॒त्पय॑स्वन्तं गो॒ष्ठम॑य॒क्ष्माँ उ॒त पूरु॑षान् ॥
स्वर सहित पद पाठशर्म॑ । य॒च्छ॒तु॒ । ओष॑धि: । स॒ह । दे॒वी: । अ॒रु॒न्ध॒ती । कर॑त् । पय॑स्वन्तम् । गो॒ऽस्थम् । अ॒य॒क्ष्मान् । उ॒त । पुरु॑षान् ॥५९.२॥
स्वर रहित मन्त्र
शर्म यच्छत्वोषधिः सह देवीररुन्धती। करत्पयस्वन्तं गोष्ठमयक्ष्माँ उत पूरुषान् ॥
स्वर रहित पद पाठशर्म । यच्छतु । ओषधि: । सह । देवी: । अरुन्धती । करत् । पयस्वन्तम् । गोऽस्थम् । अयक्ष्मान् । उत । पुरुषान् ॥५९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 59; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(शर्म) शरणम् (यच्छतु) ददातु (ओषधिः) अ० १।२३।१। तापनाशयित्री (देवीः सह) तृतीयार्थे द्वितीया। देवीभिर्दिव्यक्रियाभिः सहिता (अरुन्धती) अरोधनशक्तिः परमेश्वरः (करत्) कुर्यात् (पयस्वन्तम्) प्रभूतदुग्धयुक्तम् (गोष्ठम्) गोनिवासदेशम् (अयक्ष्मान्) राजरोगरहितान् (उत) अपि च (पुरुषान्) सम्बन्धिनो मनुष्यान् ॥
इस भाष्य को एडिट करें