Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 68/ मन्त्र 3
सूक्त - अथर्वा
देवता - सविता, सोमः, वरुणः
छन्दः - अतिजगतीगर्भा त्रिष्टुप्
सूक्तम् - वपन सूक्त
येनाव॑पत्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्। तेन॑ ब्रह्माणो वपते॒दम॒स्य गोमा॒नश्व॑वान॒यम॑स्तु प्र॒जावा॑न् ॥
स्वर सहित पद पाठयेन॑ । अव॑पत् । स॒वि॒ता । क्षु॒रेण॑ । सोम॑स्य । राज्ञ॑: । वरु॑णस्य । वि॒द्वान् । तेन॑ । ब्र॒ह्मा॒ण॒: । व॒प॒त॒ । इ॒दम् । अ॒स्य । गोऽमा॑न् । अश्व॑ऽवान् । अ॒यम् । अ॒स्तु॒ । प्र॒जाऽवा॑न् ॥६८.३॥
स्वर रहित मन्त्र
येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान्। तेन ब्रह्माणो वपतेदमस्य गोमानश्ववानयमस्तु प्रजावान् ॥
स्वर रहित पद पाठयेन । अवपत् । सविता । क्षुरेण । सोमस्य । राज्ञ: । वरुणस्य । विद्वान् । तेन । ब्रह्माण: । वपत । इदम् । अस्य । गोऽमान् । अश्वऽवान् । अयम् । अस्तु । प्रजाऽवान् ॥६८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 68; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(येन) यादृशेन विधिना (अवपत्) मुण्डनं कृतवान् (सविता) म० १। स्फूर्तिशीलः (क्षुरेण) अस्त्रेण (सोमस्य) शान्तस्वभावस्य (राज्ञः) तेजस्विनः (वरुणस्य) श्रेष्ठबालकस्य (विद्वान्) स्वकर्मज्ञाता नापितः (तेन) तादृशेन कर्मणा (ब्रह्माणः) हे वेदज्ञातारो ब्राह्मणाः (वपत) मुण्डनं कारयत (इदम्) शिरः (अस्य) माणवकस्य (गोमान्) प्रशस्तगोयुक्तः (अश्ववान्) बहुमूल्यतुरङ्गोपेतः (अयम्) माणवकः (अस्तु) (प्रजावान्) प्रशस्तसन्तानयुक्त ॥
इस भाष्य को एडिट करें