Loading...
अथर्ववेद > काण्ड 6 > सूक्त 69

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 69/ मन्त्र 1
    सूक्त - अथर्वा देवता - बृहस्पतिः, अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - वर्चस् प्राप्ति सूक्त

    गि॒राव॑र॒गरा॑टेषु॒ हिर॑ण्ये॒ गोषु॒ यद्यशः॑। सुरा॑यां सि॒च्यमा॑नायां की॒लाले॒ मधु॒ तन्मयि॑ ॥

    स्वर सहित पद पाठ

    गि॒रौ । अ॒र॒गरा॑टेषु । हिर॑ण्ये । गोषु॑ । यत् ।यश॑: । सुरा॑याम् । सि॒च्यमा॑नायाम् । की॒लाले॑ । मधु॑ । तत् । मयि॑ ॥६९.१॥


    स्वर रहित मन्त्र

    गिरावरगराटेषु हिरण्ये गोषु यद्यशः। सुरायां सिच्यमानायां कीलाले मधु तन्मयि ॥

    स्वर रहित पद पाठ

    गिरौ । अरगराटेषु । हिरण्ये । गोषु । यत् ।यश: । सुरायाम् । सिच्यमानायाम् । कीलाले । मधु । तत् । मयि ॥६९.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 69; मन्त्र » 1

    टिप्पणीः - १−(गिरौ) अ० ५।४।१। गॄ विज्ञापने−इ। विज्ञापके। उपदेशके संन्यासिनि (अरगराटेषु) ऋ गतौ−अच्+गॄ विज्ञापने−अच्+अट=गतौ−अच्। अरस्य ज्ञानस्य गरेषु विज्ञापकेषु आचार्येषु अटन्ति विचरन्ति ये तेषु ब्रह्मचारिषु (हिरण्ये) सुवर्णे (गोषु) वाक्षु। विद्यासु (सुरायाम्) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। इति षुञ् अभिषवे=स्नाने, यद्वा, षु ऐश्वर्ये−क्रन्। यद्वा। षुर ऐश्वर्यदीप्त्योः−क, टाप्। सुरा सुनोतेः। निरु० १।११। सुरा, उदकनाम−दयानन्दसंशोधिते निघण्टौ, १।११। जले। ऐश्वर्ये (सिच्यमानायाम्) प्रवहन्त्याम्। प्रवर्धमानायाम् (कीलाले) अ० ४।११।१०। अन्ने−निघ–० ३।७। (मधु) माधुर्यम्। बलवत्त्वम् (तत्) (मयि) पुरुषार्थिनि ॥

    इस भाष्य को एडिट करें
    Top