Loading...
अथर्ववेद > काण्ड 6 > सूक्त 69

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 69/ मन्त्र 2
    सूक्त - अथर्वा देवता - बृहस्पतिः, अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - वर्चस् प्राप्ति सूक्त

    अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती। यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥

    स्वर सहित पद पाठ

    अश्वि॑ना । सा॒र॒घेण॑ । मा॒ । मधु॑ना । अ॒ङ्क्त॒म् । शु॒भ॒: । प॒ती॒ इति॑ । यथा॑ । भर्ग॑स्वतीम् । वाच॑म् । आ॒ऽवदा॑नि । जना॑न् । अनु॑ ॥६९.२॥


    स्वर रहित मन्त्र

    अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती। यथा भर्गस्वतीं वाचमावदानि जनाँ अनु ॥

    स्वर रहित पद पाठ

    अश्विना । सारघेण । मा । मधुना । अङ्क्तम् । शुभ: । पती इति । यथा । भर्गस्वतीम् । वाचम् । आऽवदानि । जनान् । अनु ॥६९.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 69; मन्त्र » 2

    टिप्पणीः - २−(अश्विना) अ० ६।३।३। कर्मसु व्याप्तिमन्तौ मातापितरौ (सारघेण) सार+घट संघाते, चुरादौ−ड। सारं घाटयति संग्राहयतीति तेन। सारस्य बलस्य धनस्य वा संग्राहकेण (मधुना) मन ज्ञाने−उ, नस्य धः। ज्ञानेन (अङ्क्तम्) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु−लोट्। प्रकाशयतम् (शुभः) शोभनस्य कर्मणः (पती) पालकौ (यथा) येन प्रकारेण (भर्गस्वतीम्) तेजोमयीम् (वाचम्) वाणीम् (आवदानि) उच्चारयाणि (जनान्) मनुष्यान् (अनु) अनुलक्ष्य ॥

    इस भाष्य को एडिट करें
    Top