Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 7/ मन्त्र 2
येन॑ सोम साह॒न्त्यासु॑रान्र॒न्धया॑सि नः। तेना॑ नो॒ अधि॑ वोचत ॥
स्वर सहित पद पाठयेन॑ । सो॒म॒ । सा॒ह॒न्त्य॒ । असु॑रान् । र॒न्धया॑सि । न॒: । तेन॑ । न॒: । अधि॑ । वो॒च॒त॒ ॥७.२॥
स्वर रहित मन्त्र
येन सोम साहन्त्यासुरान्रन्धयासि नः। तेना नो अधि वोचत ॥
स्वर रहित पद पाठयेन । सोम । साहन्त्य । असुरान् । रन्धयासि । न: । तेन । न: । अधि । वोचत ॥७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 7; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(येन) पथा−म० १। (सोम) (साहन्त्य) भुवो झिच्। उ० ३।५०। इति षह अभिभवे−झिच्। पाथोनदीभ्यां ड्यण्। पा० ४।४।१११। इति सहन्ति−ड्यण् बाहुलकात्। हे सहन्तिषु सोढृषु जेतृषु भव (असुरान्) सुरविरोधिनो दुष्टान् (रन्धयासि) सू० ६।१। त्वं वशीकुर्याः (नः) अस्मदर्थम् (नः) (अधि) अधिकम् अनुग्रहपूर्वकम् (वोचत) लुङि प्रथमपुरुषस्य छान्दसं रूपम्। भवान् कथितवानस्ति ॥
इस भाष्य को एडिट करें